SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥३०५॥ Jain Educationa Internatio अथ गुरुगतं व्याख्यानविधिमाह खपढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अणुओगे॥ ५६६ ॥ सूत्रस्यार्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयवारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयवारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क १, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये ।। इति नियुक्तिगाथाद्वयार्थः ॥ ५६६ ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति ।। अथ पूर्वोदितसंवन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह भैणियं परोक्खमहुणा पञ्च्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ ५६७ ॥ मति श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि-मनः पर्याय- केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति ।। ५६७ ।। तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति संखाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चइया खओवसमियाओ काओ वि ॥५६८॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोsङ्गुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ २ क.ख.ग. 'मीसिओ'। ३९ १ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे ।। ५६६ ३ भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ ५६७ ॥ ४ संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ ५६८ ॥ ५ क.ग. 'तयशा भेदाः स ' । For Personal and Private Use Only बृहद्वृत्तिः ॥३०५|| www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy