SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः । ॥३०६॥ न्यत आबलिकाऽसंख्येयभागादारभ्य समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'विषयभेदाद् विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र-काललक्षणविषयस्याऽसंख्येयभेदत्वादवघेरप्यसंख्यया भेदा भवन्ति । खलुशब्दश्चेह विशे- पणार्थः । किं विशिनष्टि , इति चेत् । उच्यते- क्षेत्र-कालावाङ्गीकृत्यावघरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य-भावौ त्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्ते; तथाहि- " तेया-भासादव्वाणमंतरा एत्थ लभइ पठ्ठवओ" इत्यादिवचनात् तैजस-भाषाद्रव्यापान्तरालवय॑नन्तप्रदेशिकाद् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं च भावतो विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकार्य, अवधिग्राह्यांश्च तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच ज्ञानभेदः, इति द्रव्य-भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु इति विरुध्यते, इति चेत् । नैवम् , अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्दनाऽसंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः- भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः कारणं यासां ता भवप्रत्ययाः, ताश्च नारका-ऽमराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निवृत्ताः क्षायोपशमिक्यः, तपामभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताश्च तिर्यड्-मनुष्याणामिति । आह-क्षायोपशामिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावचौदयिकः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते- मुख्यतस्ता अपि क्षयोपशमनिवन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-ऽमरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति ।। ५६८।। अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां, वाचः क्रमवर्तित्वात् , आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन| सामर्थ्यमात्मनोऽपश्यन्नाह केत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? । चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥५६॥ कुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च ?, तथापि विनयगणानुग्रहार्थ चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामिः आमोषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति ॥ इति नियुक्तिगाथाद्वयार्थः॥ ५६९ ॥ १ गाथा ६२६ । २ कृतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः । चतुर्दशाविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ ५६९ ॥ SHTRA ॥३०६॥ Jan Education Internate For Personal and Private Use Only www.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy