________________
विशेषा०
बृहदत्तिः ।
॥३०७||
अथ प्रथमगाथापूर्वार्धव्याख्यानार्थं माष्यम्
तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ ५७ ०॥ संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ ५७१ ॥
तस्याऽवधेरसंख्येयाः प्रकृतयः । कुतः १, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यावधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्टं क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्टं कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव प्रदेशानां युज्यमानत्वात् । गाथाभङ्गभयाच समयनिर्देशादनन्तरं प्रदेशनिर्देशः । आह-ननूत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम् , तच्च वक्ष्यमाणप्रकारेणाऽङ्गुलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवलिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रप्रदेश-कालसमयानामसंख्येयपरिमाणम् , अतः क्षेत्र-काललक्षणज्ञेयापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि , अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्यायं च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ ५७० ॥ ५७१ ॥
अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह
भैवपच्चइया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥५७२॥ गताथैव, नवरं 'पक्खीण वा' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ ५७२ ॥
१ तस्य यदुत्कृष्टक्षेत्र कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेयत्व परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ ५७०॥
संख्यातीतमनन्तं च तेनाउनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुगलकार्य यदनन्तप्रदेश-पर्यायम् ॥ ५७१ ॥ २ भवप्रत्ययिता नारक-मुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ ५७२ ॥
॥३०७॥
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.ary