Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 109
________________ विशेषा० बृहदत्तिः । ॥३०७|| अथ प्रथमगाथापूर्वार्धव्याख्यानार्थं माष्यम् तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ ५७ ०॥ संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ ५७१ ॥ तस्याऽवधेरसंख्येयाः प्रकृतयः । कुतः १, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यावधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्टं क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्टं कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव प्रदेशानां युज्यमानत्वात् । गाथाभङ्गभयाच समयनिर्देशादनन्तरं प्रदेशनिर्देशः । आह-ननूत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम् , तच्च वक्ष्यमाणप्रकारेणाऽङ्गुलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवलिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रप्रदेश-कालसमयानामसंख्येयपरिमाणम् , अतः क्षेत्र-काललक्षणज्ञेयापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि , अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्यायं च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ ५७० ॥ ५७१ ॥ अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह भैवपच्चइया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥५७२॥ गताथैव, नवरं 'पक्खीण वा' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ ५७२ ॥ १ तस्य यदुत्कृष्टक्षेत्र कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेयत्व परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ ५७०॥ संख्यातीतमनन्तं च तेनाउनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुगलकार्य यदनन्तप्रदेश-पर्यायम् ॥ ५७१ ॥ २ भवप्रत्ययिता नारक-मुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ ५७२ ॥ ॥३०७॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202