Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥२९९॥
Jain Educationa Internation
निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाऽङ्गमस्तु, किं शेषाङ्गविरचनेन, अङ्गबाह्यश्रुतरचनेन वा १, इत्याशङ्कयाहवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ ५५१ ॥
अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्घत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्याऽपि वाङ्मयस्यावतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं निर्यूहणा विरचना शेषश्रुतस्येति ॥ ५५१ ॥
ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह
तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय अइसेसज्झयणा भूयावाओ य नो त्थीणं ॥५५२॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान- समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किञ्चिच्छ्रतं देयमित्येका दशाङ्गादिविरचनं सफलम् । इति गाथात्रयार्थः ॥ ५५२ ॥
॥ इत्यङ्गाऽनङ्गप्रविष्टं श्रुतद्वारम् ॥
तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियांस्तद्विषयः १, इति निरूपयितुमाह-.
नाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ ५५३ ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्वे द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति - द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्र लोका-sलोकाकोर, कालमतीतादिरूपं, भावानौदयिकादीन् जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा
१ यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । निर्यूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ ५५१ ॥ २ तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ ५५२ ॥ ३ ४ उपयुक्तः श्रुतज्ञानी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनस्तदचक्षुर्दर्शनेनेति ॥ ५५३ ॥
For Personal and Private Use Only
. छ. 'दीयते त' ।
५ क. ख. घ. छ. 'काशं का' ।
बृहद्वृत्तिः ।
॥२९९॥
Basi www.jainelltrary.org
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202