SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥२४२॥ क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिवोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाच युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः॥ ज्ञानद्वारे- मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-ऽवधि-मनःपर्यायज्ञानिन आभिनिबोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन प्रागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेर्दर्शितत्वात् , न तु प्रतिपन्नाः । निश्चयनयमतेने तु मति-श्रुता ऽवधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः समर्थितत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिनां तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः । दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् “सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदनिनां तूभयाभावः। संयतद्वारे--- संयतादय आभिनिवोधिकस्य पूर्वपतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते । सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- “नस्थि चरितं सम्मत्तविहूर्ण दसणं तु भयणिज्ज" । भजनामेवाह-- "सम्मत्त-चरित्ताई जुगवं, पुव्वं च सम्मत्तं"। उपयोगद्वारे- उपयोगो द्विधा- पञ्च ज्ञानानि, त्रीणि चाऽज्ञानानि साकारोपयोगः; चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, SHere ॥२४२॥ १ क.ग. 'न पूर्वप्र' । २ क.ग. 'न म' । ३ घ.छ. 'वः म' क. 'व एव म' । ४ सर्वा अपि लब्धय: साकारोपयुक्तस्योपपद्यन्ते । ५ क.ग. 'यश्चाभि' । ६ नास्ति चारित्रं सम्यक्त्वविहीनं, दर्शनं तु भजनीयम् । ७ सम्यक्त्व-चारित्रे युगपत्, पूर्व च सम्यक्त्वम् । HORSee For Personal and Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy