SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२४१॥ Jain Educationa Internal यदुक्तम्- 'ईय न सवणाइकाले नाणं' इति तत्राह -- को व सवणाइकालो उप्पाओ जम्मि होज्ज से नाणं । नाणं च तदुप्पाओ य दो वि चरिमम्मि समयम्मि ॥४२६ ॥ बृहद्वृत्तिः । वाशब्द शब्दार्थे । कथ श्रवणादिकालो व्यवहारवादिन् ! भवतोऽभिप्रेतः, यत्र ज्ञानं निषेधयसि १ । हन्त ! त्वया मतिज्ञानस्योत्पाद समय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत्, नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकालः, नापरोऽवगम्यत इति चेत् । नैवम्, इत्याह- 'नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियालक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवतः, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्बोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तिर्युज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादयः अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एवं तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्येकस्मिंस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् । यदि कृतमपि क्रियते निश्वयवादिन् !, तर्हि पुनः पुनरपि क्रियतां कृतत्वाविशेषात्, अतः करणानवस्थेति चेत् । नैवम्, क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया मारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम्, एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रांस्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठांच याति, इति कुतः पुनरपि कार्यकरणम् १, अतो न तत्करणानवस्थेति । तस्मात् 'ईय न सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । व्यवहारनयस्तु ब्रूते - तस्मिंश्वरमसमये सम्यक्त्व- ज्ञानयोरद्याप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व - ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य ३१ १ गाथा ४१७ । २ को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ ४२६ ॥ ३ क.ग. 'गन्तव्य इ' । ४ घ. छ. 'याक्ष' । ५ क.ग. 'त्रापि कि' । For Personal and Private Use Only ॥२४९॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy