________________
विशेषा०
बृहदा
॥२४॥
त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूतवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयास । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्दैवं ब्रूषे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि । इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटः प्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ ४२३ ॥
व्यवहारवादी पाह
को चरिमसमयनियमो पढमे चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥४२॥
प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्यु| त्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्त्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये | एवास्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ ४२४ ।।
____तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनिबोधिकज्ञानमेवाऽधिकत्योच्यते
उप्पाए वि न नाणं जइ तो सो कस्स होइ उप्पाओ ?। तम्मि य जइ अण्णाणं तो नाणं कम्मि कालम्मि ? ॥४२५॥
उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य | त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पद्यमानस्याऽसत्चात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्येवोत्पादो युक्तः। यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्नमिति ? । उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ ४२५॥
१ घ.'तू-ची'। २.कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तञ्चैवं तस्मिंस्तस्य समये ॥ ४२ ॥ ३ उत्पादेऽपि न ज्ञानं यदि ततः स कस्य भवस्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले १ ॥ ४२५ ॥
॥२४०॥
For Donald v
s
Only
www.jainelibrary.org