________________
विशेषा०
बृहद्वृत्तिः ।
॥२४॥
BBS
अनाकारोपयोगे लब्ध्युत्पत्तेः प्रतिपिद्धत्वादिति । आहारकद्वारे- आहारकाः साकारोपयोगवत् । अनाहारकास्त्वपान्तरालगतौ प्रतिपन्नाः संभवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव ।। ४२६ ॥
भाषकद्वारे भाष्यकार एवाह
भासासलडिओ लभइ भासमाणो अभासमाणो वा । पुव्वपडिवन्नओ वा उभयं पि अलद्धिए नत्थि॥४२७॥
भाषालब्ध्या सह वर्तत इति भाषासलब्धिकः- भाषालब्धिमांश्चेद् भवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो वा लभते प्रतिपद्यते कश्चिद् मतिज्ञानम् , पूर्वप्रतिपन्नो वा भवति-भाषालब्धियुक्तो मनुष्यादिर्जात्यपेक्षया पूर्वप्रतिपन्नो नियमाल्लभते, प्रतिपद्यमानकोऽपि भजनयेति तात्पर्यम् । अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, स टेकेन्द्रिय एव, तस्य च मागुक्तवदुभयाभाव एवेत्यर्थः ॥ इति गाथार्थः॥
परीत्तद्वारे-परीताः प्रत्येकशरीरिणः, परीत्तीकृतसंसारा वा स्तोकावशेषभवा इत्यर्थः । एत उभयेऽपि पूर्वप्रतिपन्ना नियमालभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः । अपरीत्तास्तु साधारणशरीरिणः, अपार्धपुद्गलपरावर्तादप्युपरिवर्तिसंसारा वा; मिथ्यादृष्टित्वा| दुभयेऽप्युभयविकलाः । पर्याप्तद्वारे- षट्पर्याप्तिभिः पर्याप्ताः परीत्तवद् वाच्याः । तदपर्याप्तास्तु प्रतिपन्ना एव, न वितरे । सूक्ष्मद्वारे-सूक्ष्मा उभयविकलाः । बादरास्तु पर्याप्तकवद् वाच्याः । संज्ञिद्वारे-दीर्घकालिकोपदेशेन संज्ञिनो गृह्यन्ते, ते च बादरवद् भावनीयाः। असंज्ञिनस्त्वपर्याप्तवदिति । भवद्वारे- भवासद्धिकाः संज्ञिवत् । अभवसिद्धिकास्तूभयशून्याः । चरमद्वारे-चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमा भव्यवत् । अचरमास्त्वभव्यवदिति । तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदनरूपणता ॥ ४२७ ॥
अथ द्रव्यप्रमाणमाह"किमिहाभिणिबोहियनाणिजीवदव्वपमाणमिगसमए । पडिवजेजंतु नवा पडिवज्जे जहन्नउ एगो ॥४२८॥
खेत्तपलिओवमासंखभाग उक्कोसओ पवज्जेज्जा । पुव्वपवन्ना दोसु वि पलियासंखेज्जईभागो ॥ ४२९ ॥ किमिहाऽस्मिल्लोके आभिनिवोधिकज्ञानपरिणामापन्नजीवद्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये ? । एवं शिष्येण पृष्टे स
१ भाषासलब्धिको लभते भाषमाणोऽभाषमाणो वा । पूर्वप्रतिपन्नको वोभयमप्यलब्धिके नास्ति ॥ ४२७ ॥२ घ. छ. 'पासल' । ३ क. ग. 'प्तकद्वा'। ५ किमिहाऽऽभिनिबोधिकज्ञानिजीवद्रव्यप्रमाणमेकसमये । प्रतिपद्यरंस्तु नवा प्रतिपद्यते जघन्यत एकः ॥ ४२८॥
क्षेत्रपल्योपमासंख्यभाग उत्कृष्टतः प्रपद्येत । पूर्वप्रतिपना दूयोरपि पल्यासंख्येयभागः ॥ ४२९ ॥
२४३॥