________________
BAR
HIRO
त्याह-प्रतिपद्येरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपद्यमानकास्तस्य विवक्षितसमये । विशेषा०
पा० प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एकः प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ ॥२४ा पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेश
४ राशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्ट विशेषाधिकम् ॥ इति गाथाद्वयार्थः ॥ ४२८ ।। ४२९ ॥ __ अथ क्षेत्रद्वारमधिकृत्याह
'खेत्तं हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ ४३० ॥
नानाजीवानपेक्ष्य सर्वेऽप्याभिनिवोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् ?, इत्याह- सप्त चतुर्दशभागाः- चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा | पञ्च चतुर्दशभागाः पञ्च रज्जवः प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी मृत्वेलिकागत्याऽनुत्तरसुरेख़्त्पद्यते, तेभ्यो वात्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुप्रमाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या पष्ठनरकपृथिव्यां गच्छतः, तत आगच्छतो वा पञ्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराधितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्धिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ ४३०॥
____ आह-भवत्वेवम् , किन्तु यः सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽऽगच्छति, तस्याऽधः षट् चतुर्दशभागाः किमिति न लभ्यन्ते ?, इत्याह
आगमणं पि निसिद्धं चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जयंति मणुएसु ॥४३१ ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये
H ॥२४४॥ १ क्षेत्रं भवेच्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागत्या विग्रहगतस्य गमनेऽथवाऽऽगमने ॥ ३० ॥२ घ.छ. 'वे चो'। ३ प.छ.'प्राप्नु'। ४ आगमनमपि निषिवं चरमादेति यत् तियक्षु । सुर-नारकाश्च सम्यग्दृष्टयो यद् यान्ति मनुजेषु ॥ ३१ ॥
For Personal and Private Use Only