SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ त्यागच्छति तिर्यक्ष्वेव न मनुष्येषु “सत्तममहिनेरइया तेऊ-वाऊ-अण तरुवट्टा, ने य पावे माणुस्सं" इतिवचनादिति । सुर-नारकाच विशेषा सम्यक्त्वसहिता यस्माद् मनुष्येष्वेवाऽऽयान्ति, अतः सामर्थ्यात् तिर्यग्गतिगामिनः सप्तमपृथ्वीनारका मिथ्यात्वसहिता एवाऽऽगच्छन्ति ॥ इति गाथाद्वयार्थः ॥ ४३१ ॥ ॥२४५॥ अथ स्पर्शनाद्वारम् - तत्र क्षेत्र-स्पर्शनयोर्विशेषदिधीर्षया पाह अवगाहणाइरित्तं पि फुसइ बाहिं जहा ऽणुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥४३२॥ ___ इह यत्रावगाढस्तत् क्षेत्रमुच्यते, यत्त्ववगाहनातो बहिरप्यतिरिक्त क्षेत्रं स्पृशनि सा स्पर्शनाऽभिधीयते, इति क्षेत्र-स्पर्शनयोर्विER शेषः, यथा परमाणोः, आगमे यत्रैकस्मिन् प्रदेशेऽवगाढः, तदेकप्रदेश क्षेत्रमभिहितम् , सप्तपदेशा तु 'से' तस्य स्पर्शना प्रोक्ता, यत्रैकमिन् प्रदेशेऽवगाढस्तं, अन्यांश्च षड्दिक्संबन्धिनः षट् नभःप्रदेशान् परमाणुः स्पृशतीति कृत्वेति ॥ ४३२॥ प्रकारान्तरेणाऽपि क्षेत्र-स्पर्शनयोर्भेदमाह__ अहवा जत्थोगाढो त खेत्तं, विग्गहे मया फुसणा । खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥४३३॥ पाठसिद्धैव ॥ ४३३ ॥ अथ नानाजीवानधिकृत्य क्षेत्र-स्पर्शने माह होत असंखेज्जगुणा नाणाजीवाण खेत्तफुसणाओ। एकस्याऽऽभिनिवोधिकज्ञानिजीवस्य ये क्षेत्र-स्पर्शने, ताभ्यां सकाशाद् नानाभिनिबोधिकर्जावानां याः क्षेत्र स्पर्श नास्ता असंख्येयगुणाः, नानाभिनिवोधिकजीवानां सर्वेषामसंख्येयत्वादिति भावः॥ कालद्वारमधिकृत्याह , सप्तममहानरविका तेजो-वायु-अनन्ततरुवर्तिनः, न च प्राप्नुयुर्मानुष्यम् । १ घ. छ, 'न वि पा'। ३ अवगाहनातिरिक्तमपि स्पृशति बहिर्यघाउणोरभिहितम् । एकप्रदेश क्षेत्रं सप्तमदेशा च तस्य स्पर्शना ॥ ४३२॥ ४ अथवा यत्रावगाढस्तर क्षेत्रं, विग्रहे मता स्पर्शना । क्षेत्रं च देहमानं संचरतो भवति तस्य स्पर्शनी ॥ ४३३ ॥ ५ भवन्त्यसंख्येयगुणा नानाजीवानां क्षेत्रस्पर्शनाः । ॥२४५||
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy