Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
।
EARRRO
विशेषा.
॥२६९॥
'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एक्केक्कम्मि अणंता पण्णता वीयरागेहिं ॥ ४९१ ॥
ननु “ सव्वागासपएसगं सव्वागासपएसेहिं अणंतगुणियं" इत्यत्र किमित्याकाशप्रदेशाः सूत्रेऽनन्तगुणा भणिताः ? । अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः प्रज्ञप्ताः प्ररूपिताः । ततश्चाऽयमभिप्रायः- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंवन्धिनः पर्याया अभ्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाचाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । अतः सर्वाकाशप्रदेशाग्रं सर्वाकाशमदेशैरनन्तगुणमुक्तमिति भाव इति ॥ ४९१ ॥
प्रकारान्तरेण प्रेरयन्नाह
तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥४९२॥
तत्रेति- “सव्वागासपएसगं सब्वागासपएसेहिं अणंतगुणियं पज्जवक्खरं निष्फज्जई" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषितं सामान्येनैव 'नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह तु श्रुतज्ञानविचारोधिकारात् श्रुताक्षरमकाराद्येवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः, इत्याह- तच्चाऽकारादि श्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् - न कथञ्चिदित्यर्थः । अयमभिप्राय:- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पयोयमानतुल्यता ? इति ॥
अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपयवसितश्रुते विचार्यमाणे “ सव्वागासपएसगं" इत्यादि सूत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराद्येव गम्यते न तु केवलाक्षरम् । अथ ब्रूषे- तत्र द्वितीयमनन्तरं सूत्रं यत् पठ्यते “सबजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु
. किमनन्तगुणा भणिता यदगुरुलधुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ ४९१ ॥ २ सर्वाकाशप्रदेशानं साकाशप्रदेशैरनन्तगुणितम् । ३ तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् । ॥ ४९२ ॥ • सर्वाकाशप्रदेशामं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ५ घ. छ. 'रात् धु'। ६ गाथा ४५४ । . सर्वजीवानामपि चाक्षरस्याऽनत्तभागो नित्योद्घादितः ।
॥२६९॥
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202