SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ । EARRRO विशेषा. ॥२६९॥ 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एक्केक्कम्मि अणंता पण्णता वीयरागेहिं ॥ ४९१ ॥ ननु “ सव्वागासपएसगं सव्वागासपएसेहिं अणंतगुणियं" इत्यत्र किमित्याकाशप्रदेशाः सूत्रेऽनन्तगुणा भणिताः ? । अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः प्रज्ञप्ताः प्ररूपिताः । ततश्चाऽयमभिप्रायः- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंवन्धिनः पर्याया अभ्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाचाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । अतः सर्वाकाशप्रदेशाग्रं सर्वाकाशमदेशैरनन्तगुणमुक्तमिति भाव इति ॥ ४९१ ॥ प्रकारान्तरेण प्रेरयन्नाह तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥४९२॥ तत्रेति- “सव्वागासपएसगं सब्वागासपएसेहिं अणंतगुणियं पज्जवक्खरं निष्फज्जई" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषितं सामान्येनैव 'नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह तु श्रुतज्ञानविचारोधिकारात् श्रुताक्षरमकाराद्येवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः, इत्याह- तच्चाऽकारादि श्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् - न कथञ्चिदित्यर्थः । अयमभिप्राय:- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पयोयमानतुल्यता ? इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपयवसितश्रुते विचार्यमाणे “ सव्वागासपएसगं" इत्यादि सूत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराद्येव गम्यते न तु केवलाक्षरम् । अथ ब्रूषे- तत्र द्वितीयमनन्तरं सूत्रं यत् पठ्यते “सबजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु . किमनन्तगुणा भणिता यदगुरुलधुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ ४९१ ॥ २ सर्वाकाशप्रदेशानं साकाशप्रदेशैरनन्तगुणितम् । ३ तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् । ॥ ४९२ ॥ • सर्वाकाशप्रदेशामं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ५ घ. छ. 'रात् धु'। ६ गाथा ४५४ । . सर्वजीवानामपि चाक्षरस्याऽनत्तभागो नित्योद्घादितः । ॥२६९॥
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy