SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥२६८|| Jain Educations Internat त्यर्थः इह तु "तं सव्वदव्व-पज्जाय सिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य-पर्यायमानग्रहणं कृतम् । इदमुक्तं भवति - "सेव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ" इति नन्दिसूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तथथा "सर्वे च तदाकाशं लोका-लोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामयं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्ना काशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यायाक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते” इति । तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश- पुद्गल-जीवास्तिकाय- काललक्षणसर्वद्रव्य-पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः १ इति ॥ ४८९ ॥ अत्रोत्तरमाह थोवति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हैवंतु, किं होतु वाऽभावो १ ॥४९०॥ स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभिहिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि नन्दिसूत्रे प्रोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् के भवन्तु - किं स्वपर्याया भवन्तु १, परपर्याया वा ? किंवाऽभावः खरविषाणरूपो भवतु ?, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तैः सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भवितव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्षरादिवस्तुनः स्व- परपर्यायान्यतररूपा भवन्त्येव, यथा रूपादयः, ये स्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव, यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकस्वेनाऽनुक्ता अपि ""जे एगं जाणइ से सब्बं जाणइ" इत्यादिसूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति ।। ४९० ।। अथान्यत् प्रेरयति १ गाथा ४७७ । २ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । ३ स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु किं भवतु वाऽभावः ? ॥ ४९० ॥ ४ प. छ. 'वंति किं' ५ य एकं जानाति स सबै जानाति । For Personal and Private Use Only बृहद्वत्तिः । ॥२६८ ॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy