SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२६७॥ Jain Education Internation कथम् ?, इत्याह 'पण्णवणिज्जा भावा वण्णाण सपज्जया तओ थोवा । सेसा परपज्जाया तोऽणंतगुणा निरभिलप्पा ||४८८ ॥ यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णानामकारादीनां स्वपर्यायास्ततः स्तोका अनन्तभागवर्तिनः । शेषास्तु निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इति; अतः स्वपर्यायेभ्योऽनन्तगुणाः । सर्वस्याऽपि हि वस्तुनो लोका-लोकाकाशं विहाय स्तोकाः स्वपर्यायाः, परपर्यायास्त्वनन्तगुणाः । लोका-लोकाकाशस्य तु केवलस्याऽप्यनन्तगुणत्वात् शेषपदार्थानां तु समुदितानामपि तदनन्तभागवर्तित्वाद् विपरीतं द्रष्टव्यम् - स्तोकाः परपर्यायाः, स्वपर्यायास्त्वनन्तगुणाः । er विनेयानुग्रहार्थं स्थापना काचिद् निदर्श्यते, तद्यथा - सर्वाकाशप्रदेशराशेरन्ये सर्वेऽपि धर्मास्तिकार्य-प्रदेश- परमाणु-द्वयणुकादयः पदार्थाः सद्भावतोऽनन्ता अपि कल्पनया किल दश, सर्वाकाशप्रदेश पदार्थास्तु केवला अपि किल शतम्, प्रतिपदार्थ च पञ्च पञ्च वपर्यायाः । एवं च सति धर्मास्तिकायप्रदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः, स्तोस्वपर्यायाणां तु पञ्च शतानि, बहवश्वामी परपर्यायेभ्यः । तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्ततमभागवर्तित्वात् नभसस्तु केवलस्याऽपि तेभ्योऽनन्तगुणत्वात् स्वपर्यायाऽल्प- बहुत्ववैपरीत्यं द्रष्टव्यमिति । नभसोऽन्यपदार्थानां त्वनेनैव निदर्शनेन पर्यायाणां स्तोकत्वं, परपर्यायाणां तु बहुत्वं परिभावनीयम्, तथाहि किलैकस्मिन् धर्मास्तिकायप्रदेशे पञ्च वपर्यायाः, परपर्याणां तु पञ्चचत्वारिंशदधिकानि पञ्च शतानि । एवमक्षर-परमाण्वादावपि वाच्यम् । इत्यलं विस्तरेणेति ।। ४८८ ॥ अत्र परो भाष्यस्याssगमेन सह विरोधमुद्भावयति - 'नणु सब्वागासपएसपज्जाया वण्णमाणमाइडं । इह सव्वदव्य-पज्जायमाणगहणं किमत्थं ति ? ॥ ४८९ ॥ 'ननु' इत्यस्यायाम्, सर्वस्य लोका- लोकवर्तिन आकाशस्य प्रदेशास्तेषां मीलिता ये सर्वेऽपि पर्यायास्ते, वर्णस्य पर्यायाणां सूत्रे मानं परिमाणमादिष्टम्- सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याऽक्षरस्य पर्याया भवन्ति, इत्येतावदेवाऽऽगमे प्रोक्तमि १ प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः । शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः ॥ ४८८ ॥ ३ नमु सर्वाकाशप्रदेशपर्याया वर्णमानमादिष्टम् । इह सर्वद्रव्यपर्यायमानग्रहणं किमर्थमिति १ ॥ ४८९ ॥ For Personal and Private Use Only २ घ. छ. 'यादिप्र'। बृहद्वृत्तिः । ॥२६७॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy