________________
बृहद्वृत्तिः ।
जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥४८५॥ विशेषा
तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः
अपि तु धर्मा एव, यथा घटस्य रूपादयः । प्रयोगः- येषामनुपलब्धौ यद् नोपलभ्यते, उपलब्धौ चोपलभ्यते, तस्य ते धर्मा एच, यथा ॥२६६॥ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यायाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धौ, इति ते तस्य धर्मा
इति ॥ ४८५॥
इह चाक्षरं विचारयितव्यं प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वद्रव्य-पर्यायराशिप्रमाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु, तत् सर्वमित्थंभूतमेव, सर्वस्यापि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह
न हि नवरमक्खरं सव्वदव्व-पज्जायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥४८६॥ गतार्थैव ।। ४८६ ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् ?, इति भाष्यकार एवोत्तरमाह
इहक्खराहिगारो पण्णवणिज्जा य जेण तव्विसओ। ते चिंतिजंतेवं कइभागो सव्वभावाणं? ॥४८७॥
इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम् , उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः ?, इत्यादि निवेद्यताम् , इत्याह-'पण्णवणिज्जेत्यादि' तस्य सामान्येनाऽकाराPaक्षरस्य स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, न पुनरभिलाप्याः । अतस्त
एवं चिन्त्यन्ते विचार्यन्ते । कथम् ?, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् ?, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वपक्षरणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञाप| नीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेऽभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ ४८७॥
१येष्वज्ञातेषु ततो न ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥ ४८५ ॥ २ ख.प.छ. 'ते तस्य ध। ३.हि नवरमक्षरं सर्वदन्य-पर्यायमानमन्यदपि । यद् बस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ ४८६॥ ४ इहाक्षराधिकारः प्रज्ञापनीयाश्च येन तद्विषयः । ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् ? ॥४७॥ ५ प.छ. 'तदभि'। ६घ.छ. 'ख-परप' ।
RECE
॥२६६।।
For Personal
Use Only