SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२६५॥ Jain Education Internatio निष्पादका इति हेतोः । एतदपि कुतः १, इत्याह- श्रद्धेय-ज्ञेय- क्रियाफलोपयोगिनो यतेरिति कृत्वा श्रद्धेयत्वेनोपयोगात् ज्ञेयत्वेनोपयोगात्, त्यागा-ssदानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य पर्यायाः १, इत्याह- दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन- ज्ञान-चारित्रविषयभूताः, ते हि सम्यग्दर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्राद्युपकरण-भेषज- शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति “अव्यवहारीओ नेरइया" इति वचनात् । अथवा, "पैमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई | सेसा महत्वया खलु वैदिकदेसेण दव्वाणं " ॥ १ ॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन- चारित्रगोचराः, व्रतानां चारित्रात्मजैत्वात्, चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभावात् । अत एवैते श्रद्धेयत्वाद्युपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात्, विषयमन्तरेण विषयिणोऽनुपपत्तेः । के यथा स्वकार्यनिष्पादकाः सन्तो यतेर्भवन्ति १, इत्याह- यथा ज्ञान-दर्शनादिरूपाः स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-ऽऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम्, उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति ||४८२||४८३ || " न चैतदुत्सूत्रम् इति दर्शयति ऍगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमजाणतो नागारं सव्वहा मुणइ || ४८४ ॥ इह सूत्रेऽप्युक्तम् - ""जे एगं जाणइ से सव्र्व्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" इति । किमुक्तं भवति - एकं किमपि वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानन्नावबुध्यमानः सर्वे लोका-लोकगतं वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तु ज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाऽविनाभावित्वात् सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्व सर्वपर्यायोपेतं वस्त्वजानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारैः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानैरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ ४८४ ॥ यदि नामैवम्, तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायातम् ?, इत्याह ३४ १ अव्यवहारिणो नैरयिकाः । २ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषा महाव्रताः खलु तदेकदेशेन द्रव्याणाम् ॥ १ ॥ ३ . छ. 'तदेक' । ४ एवं जानन् सर्व जानाति सर्वं च जाननेकमिति । इति सर्वमजानन् नाका: सर्वथा जानाति ॥ ४८४ ॥ ५ य एकं जानाति स सर्व जानाति यः सर्व जानाति स एकं जानाति । ६ घ. छ. 'नायेव, ए' | For Personal and Private Use Only बृहद्वृत्तिः । ॥२६५॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy