________________
विशेषा०
॥२६४॥
Jain Educationa Interna
यदि घटादिपर्यायास्तत्राऽक्षरेऽसंबद्धत्वेन परपर्याया व्यपदिश्यन्ते, तर्हि ते तस्य कथमुच्यन्ते १, इत्याह
चाय सपज्जाय विसेसणाइणा तस्स जमुवउज्जति । सधणमिवासंबद्धं भवंति तो पज्जया तस्स ॥ ४८० ॥ ततस्तस्माद् घटादिपर्याया अपि तस्याऽक्षरस्य पर्याया भवन्ति, यतोऽक्षरस्याऽपि त उपयुज्यन्ते - उपयोगं यान्ति । केन १, इत्याह- त्याग-स्वपर्यायविशेषणादिना - त्यागेन वपर्यायविशेषणेन चोपयोगादित्यर्थः । इदमुक्तं भवति-घटादिपर्यायाः सवेनाऽक्षरेसंबद्धा अपि तत्पर्याया भवन्ति, त्यागेनाऽभावेनोपयुज्यमानत्वात् । यदि हि तत्र तेषामभावो न भवेत् तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्ध्येत्, तत्रापि घटादिपर्यायाणां भावात् इत्यतोऽक्षरस्य त्यागेनाऽभावेनोपयोगाद् घटादिपर्यायास्तस्य भवन्ति । तथा, स्वपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति । न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिद्ध्यन्ति, स्व-परशब्दया पोक्षिकत्वात् । प्रयोगः - इह यद्यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम्, उपयुज्यन्ते च त्याग - स्वपर्याय विशेषणादिभावेन घटादिपर्याया अध्यक्षरस्य, अतस्ते तस्याऽपि भवन्ति । एवमक्षरपर्याया अपि घटादेर्वाच्या इति ॥ ४८० ॥
एतदेव भावयति
सेधणमसंबद्धं पि हु चेयण्णं पित्र नरे जहा तस्स । उवउज्जइ त्ति सघणं भण्णइ तह तस्स पज्जाया ॥ ४८१ ॥ इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं, तथा स्वधनमसंबद्धमपि स्वधनं तस्य लोके भण्यते । कुतः १, उपयुज्यत इति कृत्वा । तथाऽक्षरेऽसंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति ॥ ४८१ ॥
अनुमेवार्थ दृष्टान्तान्तरेण साधयति -
जैह दंसण - नाण चरित्तगोयरा सव्वदव्वपज्जाया । सद्धेय-नेय-किरियाफलोवओगि त्ति भिन्ना वि ॥४८२ ॥ जइणो सपज्जाया इव सकज्जनिष्फायग त्ति सघणं व । आयाण च्चायफला तह सव्वेसं पिवण्णाणं ॥ ४८३ ॥ इह यथा सर्वद्रव्य पर्याया भिन्ना अपि सन्तो यतेरेते भवन्ति यतेः संबन्धिनो व्यपदिश्यन्ते । कुतः १, इत्याह- स्वकार्य
1 त्याग - स्वपर्यायविशेषणादिना सस्य यदुपयुज्यन्ते । स्वधनमिवाऽसंबद्धं भवन्ति ततः पर्यायास्तस्य ॥ ४८० ॥
२ स्वधनमिवाऽसंघमपि खलु चैतन्यमिव नरे यथा तस्य । उपयुज्यत इति स्वधनं, भण्यते तथा तस्य पर्यायाः ॥ ४८१ ॥
३ यथा दर्शन- ज्ञान चारित्रगोचराः सर्वद्रव्य पर्यायाः । श्रद्धेय-ज्ञेय-क्रियाफलोपयोगिन इति भिन्ना अपि ॥ ४८२ ॥ यतेः स्वपर्यांया श्ष स्वकार्यनिष्पादका इति स्वधनमिव आदान-त्यागफलास्तथा सर्वेषामपि वर्णानाम् ॥ ४८३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२६४॥
www.jainelibrary.org