________________
Sola
बृहदत्तिः।
॥२६३॥
प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपविशेषा०% र्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संवद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभ-
यत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि धेकेनैव रूपेणैकस्योभयत्र संबन्ध इष्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपद्वयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्त्वेन त्वक्षरादिषु । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि प्रागभाव-प्रध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिर्नीरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः; किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्यावृत्तिमात्रात् प्रागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रध्वंसाभावोऽभिधीयते, तद्वत् पर्यायान्तरापन्नोऽक्षरादिर्भाव एव घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिश्चिद्रूपस्यानभिलप्यत्वात् । न च वक्तव्यं- खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवः संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् ।
किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्वे विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात् ?, अथ तेऽपि तत्र सन्ति, तर्हि विश्वकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्याप्तेरिष्टत्वात् , अन्यथा ख-परभावायोगात् । अत एव कथश्चिद् विश्वकताऽप्यवाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ ४७९ ॥
R
काठTara
॥२६३॥
Jain Education Internat
For Don Pe Use Only
www.janeltrary.org