________________
बृहद्वात्तिः।
विशेषा० ॥२६२॥
सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-यणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ ४७७ ॥
आह- के पुनः वपर्यायाः, के च परपर्यायाः ?, इत्याह
'जे लभइ केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥४७८॥
यानुदात्ता-ऽनुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , तद्व्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्प्रतिपाद्यस्य सर्वस्याऽप्येकत्वप्रसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिनः, घटादिगताश्चाऽस्य परपर्यायाः, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवमिकारादीनामपि भावनीयम् , अक्षरविचारस्यैवेह प्रक्रान्तत्वात् ॥ ४७८ ॥
___ एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्ते सति परः प्राह
जइ ते परपज्जाया न तरस, अह तरस, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥४७९॥ इह स्वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीनां, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, तर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् ?; तस्य चेत् , परस्य कथम् ? इति विरोधः । तदयुक्तम् , अभिप्रायाऽपरिज्ञानात् , यस्मात् कारणात् तस्मिन्नकारे-काराद्यक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशः, अन्यथा च्यावृत्तेन रूपेण तेऽपि संबद्धा एन, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिष्वेव संबद्धाः, इत्यक्षरस्य ते परपर्याया व्यपदिश्यन्त इति भावः । द्विविधं हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिबद्धास्ते तस्य स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः
याँलभते केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषाः परपर्ययाः सर्वे ॥ ४७८॥ २ यदि ते परपर्याया न तस्य, अथ तस्य, न परपर्यायाः। यत् तस्मिन्नसंबद्धास्ततः परपर्यायव्यपदेशः ॥ ४७९॥
॥२६२॥
For Peso
Private Use Only