SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२६१॥ Jain Educationis Interna यथा चैतन्यं जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंज्ञिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहाज्ञानमपि तेषामवगन्तव्यम्, स्तोकत्वात् स्थूलदर्शिभिस्तद् नोपलक्ष्यते, जीवत्वमित्र पृथिव्याद्येकेन्द्रियाणाम् । एकशब्दस्य चेह लोपः ' भामा सत्यभामा ' इत्यादिदर्शनादिति । यदपि परोपदेशजत्वमक्षरस्योच्यते, तदपि संज्ञा- व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमे न्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते । तदेव च मुख्यतयेह प्रस्तुतं, न तु संज्ञा व्यञ्जनाक्षरे श्रुतज्ञानाधिकारादिति ॥ ४७५ ॥ दृष्टान्तान्तरमाह जह वा सण्णीणमणक्खराण असइ नरवण्णविण्णाणे । लद्धक्खरं ति भण्णइ किंपि त्ति तहा असण्णीणं ॥ ४७६ ॥ यथ वा संज्ञिनामपि परोपदेशाभावेनाऽनक्षराणां केषांचिदतीव मुग्धर्मकृतीनां पुलीन्द्रबाल-गोपाल-गवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमॅपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात्, अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबला-बहुलादिशब्देनाssकारिता सती खनाम जानीते, प्रवृत्ति निवृत्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवा, अस्ति लब्ध्यक्षरं, नरादिविज्ञानसद्भावात् एवमसंज्ञिनामपि किमपि तदेष्टव्यमिति ।। ४७६ ॥ तदेवं साधितमेकेन्द्रियादीनामपि यच्च यावच्च लब्ध्यक्षरम् । अथैकैकस्याकारायक्षरस्य यावन्तः पर्याया भवन्ति, तदेतद् विशेषतो दर्शयति ऐक्कमक्खरं पुण स- परपज्जायभेयओ भिन्नं । तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ ४७७ ॥ इह भिन्नं पृथगेकैकमपि तदकाराद्यक्षरं पुनः स्व-परपर्यायभेदतः सर्वाणि यानि धर्मास्तिकायादीनि द्रव्याणि तत्पर्याय राशिमानं मुणितव्यम् । इदमुक्तं भवति - इह समस्त त्रिभुवनवर्तीनि यानि परमाणु-व्यणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि ये च सर्वेऽपि वर्णाः, तदभिधेयाथार्थाः, तेषां सर्वेषामपि पिण्डितो यः पर्यायराशिर्भवति स एकैकस्याऽप्यकाराद्यक्षरस्य भवति, तन्मध्ये ह्यकारस्य केचित् स्तोकाः स्व पर्यायास्ते चाऽनन्ताः, शेषास्त्वनन्तानन्तगुणाः परपर्यायाः, इत्येवं सर्वसंग्रहः । अयं च सर्वोऽपि सर्वद्रव्य-पर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षं, पदार्थाचाऽकारे कारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि किल १ यथा वा संज्ञिनामनक्षराणामसति नरवर्णविज्ञाने । लब्ध्यशरमिति भव्यते किमपीति तथाऽसंज्ञिनाम् ॥ ४७६ ॥ ५. घ. छ. 'पित' । ज्ञातव्यम् ॥ ४७७ ॥ २ क.ग. 'था से' । ३. घ. छ. 'प्रभृती' । ४ प. छ. 'पीप्यते' । ६ एकैकमक्षरं पुनः स्व-परपर्यायभेदतो भिन्नम् । तत् सर्वद्रव्य पर्यायराशिमानं For Personal and Private Use Only बृहद्वृत्तिः । ॥२६१॥ www.jainelltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy