SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Jos बृहद्वतिः । या त्रिविधाऽनुपलब्धि : कैश्चित् प्रकल्प्यते, तपथा- अत्यन्तानुपलब्धिः खरविषाणादीनाम् , सामान्यानुपलब्धिर्यथा- रूपविशेषा०लक्षितस्यापि मापकणादेमहति माषकणादिराशी प्रक्षिप्तस्यानुपलब्धिः, विस्मृत्यनुपब्धि:- विस्मृत्या 'अयं सः' इत्यनुसंधानमकुर्वतो ॥२६॥ विज्ञेया । सैषा त्रिविधाऽप्यनुपलब्धिर्नेहाधिकृता, अक्षरोपलब्ध्यधिकारेऽनुपलब्धेरप्रस्तुतत्वात् । अथोपलब्धिविपक्षोऽनुपलब्धिः, अतो विपक्षत्वेन साऽप्यत्राधिकृता । साध्वेतत् , केवलं त्रैविध्यनियमोऽयमयुक्तः अतिसंनिकृष्टा ऽतिविप्रकृष्टानुपलब्ध्यादिकाया अप्यनुपलब्धेः प्रसिद्धत्वात् । ततः सर्वोऽप्यसौ साक्षात् , आदिग्रहणेन वा वक्तव्या, न तु तस्यास्वविध्यनियमो युक्तः । सर्वाऽपि तद्युच्यतामिति चेत् । नैवम् , ग्रन्थविस्तरप्रसङ्गात् , अन्यत्रोक्तत्वात् , प्रत्यक्षा-ऽनुमानान्तर्भावाञ्चेति । अत्र यत् प्रक्षेपगाथान्तरं दृश्यते तत् खधिया भावनीयम् , उपेक्षणीयं वेति ॥ ४७३ ॥ तदेवं तत्व-भेद-पर्यायैर्व्याख्यातमक्षरम् । सांप्रतमक्षरश्रुताधिकारादेव यदुक्तं सूत्रे- “ अक्खरलद्धिअस्स लद्धिअक्खरं समुपज्जइ" इति तत्र प्रेर्यमुत्थापयन्नाह अक्खरलंभो सण्णीण होज पुरीसाइवण्णविण्णाणं । कत्तो असण्णीणं भणियं च सुयम्मि तेसि पि ॥१७॥ पुरुष स्त्री-नपुंसक घट-पटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिना समनस्कजीवानां भवेत् , श्रद्दध्महे एतत् , असंज्ञिनां त्वमन| स्कानां कुत एतद्वर्णविज्ञान संभवति ?- न कुतश्चिदित्यर्थः, अक्षरलाभस्य परोपदेशजत्वातः मनोविकलानां तु तदसंभवात् । मा भूत् तेषां - तर्हि तदिति चेत् , इत्याह- भणितं च वर्णविज्ञानं श्रुते तेषामप्येकेन्द्रियाद्यसंज्ञिना- “ एगिदिया में मइअन्नाणी सुयअन्नाणी य" इत्यादिवचनात् । न हि श्रुताज्ञानमक्षरमन्तरेण संभवति, तदेतत् कयं श्रद्धातव्यम् ? इति ।। ४७४ ॥ अत्रोत्तरमाहजह चेयण्णमकित्तिममसण्णीणं तहोहनाणं पि । थोवं ति नोवलब्भइ जीवत्तमिबिंदियाईणं ॥ ४७५ ॥ ONORAMASTAASमारमान १५.छ. 'तू परिक' । २ अक्षरलब्धिकस्य लब्ध्यक्षरं समुत्पद्यते । ३ अक्षरलाभः संक्षिन भवेत पुरुषादिवर्णविज्ञानम् । कुतोऽसंज्ञिना भणितं च श्रुते तेषामपि ॥ ७ ॥ ४ क. ग. 'नं भ'। ५क, ख, ग, 'तदभावात्। एकेन्द्रिया मत्यज्ञानाः, ताज्ञानाच । • यथा चैतन्यमकृनिममसंज्ञिना तथौषज्ञानमपि । स्तोकमिति नोपलभ्यते जीवस्वमिवेन्द्रियादीनाम् ॥ ५७५ ॥ २६०॥
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy