SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा. ॥२५९॥ इन्द्रिय-मनोनिमित्तमपि ज्ञानं तत्त्वतोऽनुमानमेवेति दर्शयति 'इंदिय-मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमिइ पञ्चक्खोवयारो त्थ ॥४७१॥ इह यदिन्द्रिय-मनोनिमित्तं साक्षात्पुरोवस्थितं घटाद्यर्थ दृष्ट्वा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादुत्पत्तेः, धृमॉग्निमानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाद्भूतार्थानि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः इति भावः । आह- नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ दृष्ट्वा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता पोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् ?, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पद्यते, न पुनर्धमादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोऽत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ ४७१॥ अथ तत्रापि किश्चिद्देदाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वंमयुक्तमिति दर्शयति नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ ४७२ ॥ येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र | सादृश्याविशेषात् पुनरुक्तदोषदुष्टैवेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाञ्च पौनरुक्त्यम् । न च समस्तलिङ्गसंग्राहिकेयम् , सकललोकमतीतानामपि कार्यखभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथावापि केनाऽप्यंशेन सादृश्यमस्ति, तडॅकमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽप्यंशेन सादृश्यस्यैव गमकत्वात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात ? इति ॥ ४७१ ।। भवत्वेवम् , तथाऽप्यनुमानात पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा इत्याशडक्याह- माजभानीया नाहिगयाऽणुवलडी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उजुत्तो तिविहनियमो से॥४७३॥ १ इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भिद्यते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ ४७१ ॥ २ नाऽपुनरुक्ता न समस्तलिङ्गसंग्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलव्ध्या ? ॥ ४७२ ।। -३ नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन वा न तु युक्तविविधनियमस्तस्य ।। ४७३ ।। PERTRE ॥२५९॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy