________________
विशेषा ० ॥२५८॥
Jain Educationa Interna
पेच्चक्खमिंदिय-मणेहिं लभइ लिंगेण चक्खरं कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ ४६९ ॥
तच्चाक्षरं लब्ध्यक्षरं कश्चित् प्रत्यक्षं लभते - प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः । काभ्यां कृत्वा १, इत्याह- इन्द्रिय-मनोभ्याम् - इन्द्रिय-मनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचिल्लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्यर्थः । अन्यस्य तु लिङ्गेन धूमादिना तदुत्पद्यते धूमादिलिङ्गं दृष्ट्वाऽग्न्यादिरूपं तत् कस्यचिदुपजायत इत्यर्थः । लिङ्गं किमुच्यते १, इत्याह- अनुमानमिति । ननु लिङ्गग्रहणसंबन्धस्मरणाभ्यामनु पश्चाद् मानमनुमानं लिङ्गजं ज्ञानमुच्यते, कथं लिङ्गमेवाऽनुमानमिति चेत् ? । सत्यम्, किन्तु कारणे कार्योपचारात् तदप्यनुमानं यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति । तदेतदिह तात्पर्यम्- लब्ध्यक्षरं श्रुतज्ञानमुच्यते तच्चेन्द्रिय मनोनिमित्तं प्रत्यक्षं वा स्यात्, अनुमानं वा स्यात्, नान्यत् शेषस्याऽऽत्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः । ' अण्णे सारिक्खाई पभासंति ति' सादृश्यादिभ्यो जायमानत्वात् तदनुमानं पञ्चविधमिति केचित् प्रभाषन्ते ॥ ४६९ ॥
एतदेवाह -
सौरिख-विवक्खो -भय-मुवमागममेव सव्वमणुमाणं । किंचिम्मत्तविसेसेण वा न तं पंचहा ठाइ ॥ ४७० ॥
सादृश्यादन्यस्मिन् प्रत्यक्षेऽप्यर्थे स्मृतिज्ञानमुपजायते, यथा सदृशे एकस्मिन् भ्रातरि कापि दृष्टेऽन्यस्मिंस्तत्सदृश्येतद्भ्रातरि पूर्वदृष्टे सादृश्यात् स पूर्वदृष्टोऽस्य भ्राता' इति स्मृतिज्ञानमुत्पद्यते । विपक्षादप्युरगादेस्तद्विपक्षे नकुलादौ स्मृतिज्ञानमुपजायते । उभयस्मादुभयरूपाद् वेगसरात् खरा ऽश्वयोः स्मृतिज्ञानमाविर्भवतीत्यादि । उपमानाद् गवादेर्गवयादौ, आगमात् स्वर्गादौ ज्ञानमुत्पद्यते । एवं सादृश्यादिभेदेनानुमानं पञ्चविधम् ।
अत्र सूरिराह - सर्वमेवेदमनुमानम् - अनुमानाद् नातिरिच्यते, संबन्धादन्यतो विवक्षितार्थप्रतिपत्तेः । अथ किञ्चिद्भेदेन भेदो विवक्ष्यते, तत्राह - ' न तं पंचहा ठाइ त्ति' तदनुमानं पञ्चधा नावतिष्ठते नाडनेन भेदपञ्चकमात्रेण सर्वतद्भेदसंग्रहो भवतीत्यर्थः, धूमादग्निज्ञानस्य, बलाकादेर्जलायनुमानस्य च सकललोकमती तस्याऽनेनाऽसंग्रहादिति । अत्रान्तरे 'माय अहियस्स' इत्यादिगाथा कचिद् दृश्यते सा च प्रक्षेपरूपा मूलटीकयोरगृहीतत्वादुपेक्ष्यते ॥ ४७० ॥
१ प्रत्यक्षामन्द्रिय मनोभ्यां लभते लिङ्गेन चाक्षरं कोऽपि । लिङ्गमनुमानमन्ये सादृश्यादि प्रभाषन्ते ॥ ४६९ ॥ २ क. ख. ग. 'तदि' । ३ सादृश्य- विपक्षोभयमुपमाऽऽगममेव सर्वमनुमानम् । किञ्चिन्मात्रविशेषेण वा न तत् पञ्चधा विष्ठति ॥ ४७० ॥ ४ भागाधिकस्य
For Personal and Private Use Only
| बृहद्वृत्तिः ।
॥२५८॥
J
www.jainelibrary.org