________________
विशेषा०
॥२५७||
योऽक्षरस्योपलम्भो लाभः सा लम्भनं लब्धि:- तल्लब्ध्यक्षरमित्यर्थः। तच्च किम् ?, इत्याह- इन्द्रिय-मनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणक्षयोपशम इति- यः श्रुतज्ञानोपयोगः, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः।। उक्तं त्रिविधमक्षरम् ।। ४६६॥
अथात्र किं द्रव्यश्रुतं, किंवा भावश्रुतम् ?, इत्याह
देव्वसुयं सण्णा-वंजणक्खरं, भावसुत्तमियरं तु । मइ-सुयविसेसणम्मि वि मोत्तूणं दवसुत्तं ति ॥ ४६७ ॥
संज्ञाक्षरं, व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वाद् द्रव्यश्रुतं, इतरत्तु लब्ध्यक्षरं भावश्रुतम् । अत्र विनेयः माह- ननु पूर्व मैति-श्रुतभेदविचारे येयं गाथा प्रोक्ता
'सोइंदिओवलद्धी होइ सुर्य सेसयं तु मइनाणं । मोत्तूर्ण दव्वसुयं अक्खरलंभो य सेसेसु' ॥ १॥ इति । अस्यां किमस्य त्रिविधस्याऽक्षरस्य संग्रहोऽस्ति नवा, श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् । यद्यस्ति, तर्हि दर्यतां कथमसौ । अथ नास्ति, तीत्रापि किमनेनाप्रस्तुतेन । इत्याशङ्कय मूरिः पूर्वापरग्रन्थसंवाद दिदर्शयिषुस्तत्राऽप्यस्याक्षरत्रयस्य संग्रहमुपदर्शयति-'मइ-सुये| त्यादि' मति-श्रुतविशेषणेऽपि मति-श्रुतभेदविचारेऽपि 'सोइंदिओवलद्धी' इत्यादिगाथायां 'मोत्तूर्ण दव्वसुर्य' इत्यनेन गाथावयवेन॥४६७॥
किम् ? , इत्याह
देवसुयं सण्णक्खरमक्खरलंभो त्ति भावसुयमुत्तं । सोउँवलडिवयणेण वंजणं भावसुत्तं च ॥ ४६८ ॥
संज्ञाक्षरमुक्तम् । कथंभूतम् ?, इत्याह-द्रव्यश्रुतं भावकारणत्वाद् द्रव्यश्रुतरूपम् । 'अक्खरलंभो य सेसेसु' इत्यनेन त्ववयवेन लब्ध्यक्षरमुक्तमिति शेषः। कथंभूतम् ?, इत्याह-भावश्रुतं विज्ञानात्मकत्वाद् भावश्रुतरूपम् । 'सोइंदिओवलद्धी होइ सुर्य' इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्येति बहुव्रीहिसमासाश्रयणाद् व्यञ्जनं व्यञ्जनाक्षरमुक्तम् , श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितम् , इत्येवं न पूर्वा-परविसंवादः ।। ४६८ ॥
ननु लब्ध्यक्षरं कथं प्रमाता लभते ?, इत्याह१.छ. 'णक्ष'। २ व्यश्रुत संज्ञा-व्यञ्जनाक्षरं भावभुतमितरत् तु । मति-श्रुतविशेषणेऽपि मुक्त्वा द्रव्यसूत्रमिति ॥ ४६७ ॥ ३ क. 'तिपूर्वधु' । ४ गाथा ११७। ५ वष्यश्रुतं सज्ञाक्षरमक्षरलाभ इति भावभुतमुक्तम् । श्रोत्रोपलब्धिवचनेन व्यञ्जनं भावसूत्रं च ॥ ४५८ ॥
॥२५७||
३३
For Pesond
ere