________________
AAPos
। श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्याविशेषा
ऽनुपपत्तेः। अहो ! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिनां संपूर्णस्यापि केवलाक्षरस्य सद्भावात् ,
'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , ॥२७०||
अपिशब्दाद् वा केवलिनो विहायाऽन्येषामेवाऽक्षरस्याऽनन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणेविरोधः । हन्त ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्बाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ ४९२ ॥ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् ?, इत्याह
'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥४९॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः स्वपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानस्वपर्यायाणाम् ; केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिप्रमाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छूतज्ञानस्य स्वपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, ज्ञेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तईि परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह- न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन वपर्यायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायप्रमाणत्वादिति ॥ ४९३ ॥ ___आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः । उच्यते अस्ति विशेषः, यतः
। स्वकपर्यवैस्ततू केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं तत् केवलेनैव ॥ ४९३ ॥
॥२७०॥
SPITEMPITTEET
Jan Education intem
For Personal and Private Use Only
www.jainelibrary.org