________________
विशेषा०
बृहद्वत्तिः ।
CON
॥२७॥
अविसेसकेवलं पुण सयपज्जाएहिं चेव तत्तुल्लं । जं नेयं पइ तं सव्वभावव्वावारविणिउत्तं ॥ ४९४ ।।
उभयत्र सर्वद्रव्य-पर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुत-केवलयोरस्ति विशेष इत्येवं पुनः शब्दोच विशेषयातनार्थः । कः पुन- रसौ विशेषः ?, इत्याह- अविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्व-परविशेषरहितैः सामान्यत एवाऽनन्तपर्यायैर्युक्त केवलज्ञानमविशेषकेवलमित्यर्थः । तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं- तेन प्रक्रमानुवर्तमानसर्वद्रव्य-पर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्व परपर्यायैस्तत्तुल्यमिति विशेष इति भावः । कथं पुनः केवलज्ञानस्य तावन्तः पर्यायाः१, इत्याह- 'जं नेयमित्यादि' यद् यस्मात् केवलज्ञानं सर्वद्रव्य-पर्यायलक्षणं ज्ञेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनियुक्त प्रतिसमयं प्रवृत्तिमदित्यर्थः । इदमुक्तं भवति- केवलज्ञानं सर्वानपि सर्वद्रव्य-पर्यायान् जानाति, ते च तेन ज्ञायमाना ज्ञानवादिनयमतेन तत्स्वरूपतया परिणताः, ततो ज्ञानमयत्वात् ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति । श्रुतादिज्ञानानि तु सर्वद्रव्य-पर्यायराशेरनन्ततममेव भागं जानन्ति । अतस्तेषां स्वपर्याया एतावन्त एव भवन्ति, अतो न श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वात्, इति श्रुत-केवलयोर्विशेषः । अत्र पक्षे केवलस्य परपर्यायविवक्षा न कृता । ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्वादापत्यैव वपर्यायाः मोक्ताः, न तु परपर्यायापेक्षया, इत्यविशेषकेवलत्वविरोधो नाशङ्कनीय इति ॥ ४९४ ॥ तदेवं ज्ञानवादिनयमतविवक्षयैव केवलस्य परपर्यायाभावः प्रोक्तः, वस्तुस्थित्या पुनरिदमपि स्व-परपर्यायान्वितमेवेति दर्शयति
वेत्थुसहावं पइ तं पि स-परपज्जायभेयओ भिन्नं । तं जेण जीवभावो भिन्ना य तओ घडाईया ॥४९५॥
वस्तुस्वभावं प्रति यथावस्थितवस्तुस्वरूपमाश्रित्य तदपि केवलज्ञानमकाराद्यक्षरवत् स्व-परपर्यायभेदतो भिन्नमेव, न तु यथोक्तनीत्या स्वपर्यायान्वितमेवेति भावः । कुतः ?, इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावः प्रतिनियतो जीवपर्यायो न घटादिस्वरूपं तत्, नापि घटादयस्तत्स्वभावाः, किंतु ततो भिन्नाः । इति तेन ज्ञायमाना अपि कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् । तस्मादमूर्तत्वाच्चेतनवच-सर्ववेत्तृत्वा-अतिपातित्व-निरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः, घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य परपर्यायाः।
, भविशेषकेवलं पुनः स्वकपर्यायरेव तस्तुल्यम् । यज्ज्ञेयं प्रति तत् सर्वभावच्यापारविनियुक्तम् ॥ ४९४ ॥ २ वस्तुस्वभावं प्रति तदपि स्व-परपर्यायभेदतो भिन्नम् । तद् येन जीवभावो भिनाश्च ततो घटादिकाः ॥ ४९५ ॥ ३ क.ख.ग. 'तंव'।
॥२७॥
For Pesona Pe User