________________
विशेषा०
बृहद्वत्तिः।
॥२७२॥
Share
अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानाति न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वद्रव्य-पर्यायैकत्वमसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य वपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं स्वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति ।। ४९५ ॥
एवं च सति किं स्थितम् , इत्याह___अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइ8 । सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्धं ॥ ४९६ ॥
एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशप्रदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि समानपर्यायत्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु ब्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रे न किमपि र्यत इति॥४९६॥
नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽब्रियते, न वा, इत्याह
तैस्स उँ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥४९॥
तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवर्जानां सर्वजीवानां जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति ।। ४९७ ॥
तत्र सवेजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाह
सो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ ४९८ ॥
स पुनः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाब्रियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्तमामात्रं कदापि नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं कदाँचिद् नात्रियत इति भाव इति ।। ४९८॥
११.छ. 'लस्य' । २ अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत केवलाक्षरयोरेवं द्वयोरपि न विरुद्धम् ॥ ४९६ ॥ ३ तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ ४९७ ॥ ४ घ.छ. 'उण अ'। ५ स पुनः सर्वजघन्य चैतन्यं नावियते कदापि । उत्कृष्टावरणेऽपि जलदच्छन्नार्कभास इव ॥ ४९८ ॥ ६ घ. छ. 'ना' । ७ घ.छ. 'दापि ना'।
PAPRASAसर 9.9APOrcialive
॥२७२॥