SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥२७३॥ Jain Educationa Internation hi पुनरसौ सर्वजधन्योऽक्षरानन्तभागः प्राप्यते १, इत्याह थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवडेढए कमविसोहीए ॥ ४९९ ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्याद्येकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥। ४९९ ।। तर्द्युत्कृष्टः, मध्यमचैष केषां मन्तव्यः १, इत्याह कोसो उक्कोस सुयणाणविओ, तओवसेसाणं । होइ विमज्झो मज्झे छट्टाणगयाण पाएण ॥ ५०० ॥ वाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्रुतज्ञानविदः संपूर्ण श्रुतज्ञानस्येत्यर्थः । अत्राह - नन्वस्य कथमक्षरानन्तभागः, यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत - केवलाक्षर पेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः “केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात्, अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिवि घोsपि न संभवति, इति तद्वर्जनं कृतम्, एवं संपूर्ण श्रुतज्ञानिनोऽपि समस्त श्रुताक्षरयुक्तत्वेनाऽङ्गरानन्तभागस्त्रिविधोऽपि न संभवतीति तद्वर्जनमपि कृतं स्यात् । तस्मादसंमिलितसामान्याक्षरापेक्षयैवाऽस्य (ऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाऽक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णऽप्यनन्तभागवर्तित्वं युक्तमेव केवलज्ञानस्व पर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् तस्य परोक्षविषयत्वेनाऽस्पष्टृत्वाच्चेति । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत- केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति । .6 अन्ये तु - 'सो पुण सव्वजहन्नो चेयण्णं' इत्यादिगाथायां स पुनरक्षरलाभः " इति व्याचक्षते । इदं चानेकदोषान्वितत्वात्, जिन भद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षात तथाहि - ' तेस्स उ अनंतभागो निच्चुग्घाडो ' इत्यायनन्तरगाथायामक्षरानन्तनाग एवं महुतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः १, किमाकाशात् पतितः । किञ्च यद्यक्षरलाभ इतीह व्यायते तर्हि 'केवलिवजाणं तिविहभेओ वि ' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो ३५ १ स्थानसहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्धया ॥ ४९९ ।। २ घ. छ. 'टूट क ३ उत्कृष्ट उत्कृष्टश्रुतज्ञानविदः, ततोऽयशेषाणाम् । भवति विमध्यो मध्ये पद्स्थानगतानां प्रायेण ॥ ५०० ॥ ४ घ. छ. झ. 'ओ विसे। ५ गाथा ४९७ । ६क. 'स्पाइन' | ७ गाथा ४९८ । For Personal and Private Use Only बृहद्वृत्तिः । ॥२७३॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy