SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 63. 92 विशेपा० ॥२७४॥ बाबा त्कृष्टोऽक्षरलाभः संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, किं तद्वजनस्य फलम् । क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- “स च किल जघन्यतोऽनन्तभागः" इत्यादि । अथ सामान्यमक्षरं नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे 'तस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चायुक्तम् , संपूर्णश्रुतज्ञानिनां, | ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्त्वानुपपत्तेः । किश्च, (सो उण) 'केवलिव जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवालिनः सर्वथैव श्रुताक्षरस्याऽसंभवेन तदर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुता वा विदन्ति, इत्यलं प्रसङ्गेन । विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां षट्स्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थः-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाञ्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्यर्थः ॥ इति सप्तचत्वारिंशद्गाथार्थः ॥ ५००॥ ॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्प्रतिपक्षभूतमनक्षरश्रुतमाह ऊँससियं नीससियं निच्छुढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥५०॥ उच्छ्रसनमुच्छसितं, भावे निष्ठापत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुवारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेष्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत-सीत्कारादिपरिग्रहः ॥ इति नियुक्तिगाथार्थः ॥ ५०१ ॥ १५. छ. 'नफ' । २ गाथा ४९९ । ३ गाथा ४९७ ॥ ४ प.छ. 'मध्यमो म'। ५ उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । निःसिक्तिमनुस्वारमनक्षरं सेण्टितादिकम् ॥५.१॥ ६ घ.छ. 'दिन' । ॥२७४॥ For Peso Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy