________________
पट-मापदास
PRECASS
शेषा०
॥२७५||
अथ भाष्यम्ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स । सव्यो चिय वाचारो सुयमिह तो किं न चेट्ठा वि?॥५०२॥
इहोच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम् , शब्दमात्रत्वात् : शब्दश्च भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वासित-निःश्वसितादिश्रवणे 'सशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकानिष्ठूतकासित क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यामिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् , इत्युच्छ्रसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-ऽऽगमने-चलन-स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते-कः किमाह - प्रामोत्यनेन न्यायेन साऽपि श्रुतम् ॥ ५०२॥
रूढीय तं सुयं सुबइ त्ति चेट्ठा न सुव्वइ कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥५०३॥
उक्तन्यायेन श्रुतत्वप्राप्तौ समानायामपि तदेवोच्छ्वासितादि श्रुतम् , न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छसितायेव श्रुतं रूद, न चेष्टेत्यर्थः 'श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्सितादि श्रुतम्, न चेष्टा' इत्येवं चशब्दः पक्षान्तरसूचकः, भिन्नक्रमश्च । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते, इति कथमसौ श्रुतं स्यात् ? इत्यर्थः ।। अनुस्वारादयस्त्वकारादिवर्णा इवाऽर्थस्याधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ ५०३ ॥
॥ इत्यनक्षरश्रुतमिति ॥ अथ संज्ञिश्रुतमभिधित्सुराहसण्णिस्स सुयं जं तं सण्णिसुयं सो य जस्स सा सण्णा । होइ तिहा कालिय-हेउ-हिडिवाओवएसेण ॥५०॥
७ उच्छसितादि द्रव्यश्रुतमात्रमथवा श्रुतोपयुक्तस्य । सर्व एवं व्यापारः श्रुतमिह ततः किं न चेष्टापि? ॥ ५०२ ॥ २ क. 'न-प' । ३ रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इव यदनुस्वारादयस्तेन ॥ ५०३ ॥ ४ घ. छ. 'ढी ते'। ५ संजिनः श्रुतं यत् तत् संज्ञिश्रुतं स च यस्य सा संज्ञा । भवति निधा कालिक-हेतु-दृष्टिवादोपदेशेन ॥ ५०४ ॥
२७५॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ory