________________
विशेषा०
॥२७६॥
Jain Education Internat
संज्ञितं तावत् तदेवाऽभिधीयते यत् संज्ञिनः संबन्धि । सोऽपि संज्ञी स एव यस्याऽसौ संज्ञा समस्ति । सा च संज्ञा त्रिविधा भवति - दीर्घशब्दलोपाद् दर्घिकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति ॥ ५०४ ॥
अत्र परः माह
जैइ सण्णासंबंघेण सण्णिणो, तेण सण्णिणो सव्वे । एगिंदियाइयाण वि जं सण्णा दसविहा भणिया ॥ ५०५ ॥ संज्ञा विद्यते येषां ते संज्ञिनः इत्येवं संज्ञासंबन्धाद् यदि संज्ञिन इष्यन्ते, तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः प्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः, इत्येवमतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा - ""एगिंदियाणं भंते ! कइविहा सण्णा पन्नत्ता ? । गोयमा ! दसविहा, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ओहसण्णा, लोगसण्णा " एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के नामेत्थमसंज्ञिनः ?, प्रोक्ता चैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् ? इति ।। ५०५ ।।
अत्र परिहारमाह
1
थवा न सोहणा विय जं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेण ॥ ५०६ ॥ जह बहुव्यो घणवं पत्थरूवो अ रूववं होइ । महईए सोहणाए य तह सण्णी नाणसण्णाए ॥ ५०७ ॥ यद् यस्मात् कारणात् सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति स्वल्पा, ततोऽत्र नाधिक्रियते न तथा संज्ञी वक्तुं युज्यत इति भावः । न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । आहार-भय-परिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्य पीह नाधिक्रियते, तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना - मोहादिजन्यत्वेन नासौ विशिष्टेत्यर्थः । न चाऽविशि
१ यदि संज्ञासंबन्धेन संज्ञिनः तेन संज्ञिनः सर्वे । एकेन्द्रियादिकानामपि यत् संज्ञा दशविधा भणिता ॥ ५०५ ॥
२ एकेन्द्रियाणां भगवन् ! कतिविधा संज्ञा प्रज्ञप्ता १ । गौतम ! दशविधा, तथथा आहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, ओघसंज्ञा, लोकसंज्ञा । ३ प. छ. 'लोभस'।
४ स्तोका न शोभनाऽपि च यत् सा ततो नाऽधिक्रियत इह । कार्षापणेन धनवान् न रूपवान् मूर्तिमात्रेण ॥ ५०६ ॥ यथा बहुद्रव्यो धनवान् प्रशस्तरूपश्च रूपवान् भवति । महत्या शोभनया च तथा संज्ञी ज्ञानसंज्ञया ५०७ ॥ ५ घ. छ. 'वो य रू'।
For Personal and Private Use Only
बृहद्वृचिः ।
॥२७६॥
www.jainelltrary.org