Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 74
________________ विशेषा० बृहद्वत्तिः। ॥२७२॥ Share अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानाति न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वद्रव्य-पर्यायैकत्वमसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य वपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं स्वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति ।। ४९५ ॥ एवं च सति किं स्थितम् , इत्याह___अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइ8 । सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्धं ॥ ४९६ ॥ एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशप्रदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि समानपर्यायत्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु ब्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रे न किमपि र्यत इति॥४९६॥ नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽब्रियते, न वा, इत्याह तैस्स उँ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥४९॥ तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवर्जानां सर्वजीवानां जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति ।। ४९७ ॥ तत्र सवेजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाह सो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ ४९८ ॥ स पुनः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाब्रियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्तमामात्रं कदापि नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं कदाँचिद् नात्रियत इति भाव इति ।। ४९८॥ ११.छ. 'लस्य' । २ अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत केवलाक्षरयोरेवं द्वयोरपि न विरुद्धम् ॥ ४९६ ॥ ३ तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ ४९७ ॥ ४ घ.छ. 'उण अ'। ५ स पुनः सर्वजघन्य चैतन्यं नावियते कदापि । उत्कृष्टावरणेऽपि जलदच्छन्नार्कभास इव ॥ ४९८ ॥ ६ घ. छ. 'ना' । ७ घ.छ. 'दापि ना'। PAPRASAसर 9.9APOrcialive ॥२७२॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202