Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 86
________________ विशेषा. ॥२८४॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिकं सम्यक्त्वं भवति । किमुपशमणिगतस्यैवैतद् भवति !, न, इत्याह'जो वेत्यादि' यो वा जन्तुरनादिमिथ्यादृष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमि-बृत्तिः । ध्यात्वो लभते सम्यक्त्वं, तस्याऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुखोऽप्यविद्यमानत्रिपुजो भवति, अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुजः सम्यक्त्वं लभते, तस्यैवीपशामिक - सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्यादृष्टिस्तथा-1 विधगुर्वादिसामग्रीसद्भावेऽपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अधेविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्गललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुजत्रयं कृत्वा सम्यक्त्वपुजपुद्गलान् विपाकतो बेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः " तद्यथेह प्रदीपस्य स्वच्छाश्रपटलैहम् । न करोत्यावृति काञ्चिदेवमेतद् रवेरपि ॥१॥" एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः ।। "एकपुजी द्विपुजीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्व कीर्तितः ॥१॥" अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुश्री सन्नुभयवान् सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युद्वलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह “यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुञ्ज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ १॥" इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन ॥ ५२९॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तहि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह खीणम्मि उइण्णम्मि य अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तम उवसमसम्म लहइ जीवो ॥५३०॥ इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिप्रमाणतां नीतास्त्रपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये ॥२८॥ 1 क्षीण उदीणे चानुदीयमाने च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ ५३॥ For Personal and Prevate Une Grey

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202