Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 89
________________ विशेषा. बृहद्वृत्तिः । ॥२८७॥ कसम्यक्त्वे शुद्धपुञ्जपुद्गलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेद्यते । इत्यलं प्रसङ्गेनेति ॥ ५३२ ॥ अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया पाह 'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थं । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३ ॥ वेदयत्यनुभवति सम्यक्त्वपुद्गलानिति वेदकोऽनुभविता, तदनान्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेद्यत इति वेदकम् , जीवादिवस्तुबोधं प्रति समिति सम्यग् अवैपरीत्येन, अञ्चति प्रवर्तत इति सम्यक् , तस्य भावः सम्यक्त्वं, वेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपकाणं प्रतिपन्नस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुञ्जेषु क्षपितेषु, सम्यक्त्वपुञ्जमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुद्गलावस्थं भवति । सर्वे च ते उदिताश्च ते च ते चरमपुद्गलाश्च सर्वोदितचरमपुद्गलास्तेऽवस्था स्वरूपं यस्य तत् तथा । इदमुक्तं भवति-क्षपितप्रायदर्शनसप्तकस्य सम्यत्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति । __अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् । सत्यम् , किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-ऽनुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । चरमग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्यं चेदमङ्गीकर्तव्यम् , स्थानान्तरेषु बहुशः क्षायिको-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात् । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्गः स्यादिति । अनन्तानुबधिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपश्चकपरिग्रहात् सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥ ५३३ ॥ अत्राह-ननु कियत् सम्यक्श्रुतमेव भवति?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति?, कस्य च न ?, इत्याशङ्कयाह १ वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥ ५३३ ॥ २ घ.छ. 'मव' । ॥२८७॥ and interna For Personal Pre Use Only www.jainelbrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202