Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषाः
Picrooravaroo1656मारपरस समाजमनाममा
ऽहि-विषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते ।
तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा ? इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अन॥२९३॥
र्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षः, तर्हि तस्य किमायातम् ? । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गातः तथाहि- सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा ? इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनन्तरभूत इति द्वितीयः पक्षः, स किं विद्यमानः, अविद्यमानो वा ?। यदि विद्यमानः, किमिति क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः । अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कथं करणोत्पत्तिः, करणे वा वस्तुनोनित्यत्वप्रसङ्गः, तदव्यतिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेष दोष इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात्ः इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात् , इति कथं प्रतिनियतसहकारिकल्पना । अथवभूत एवाऽस्य वस्तुनः स्वभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्यं जनयति । नन्वेतदपि मनोरथमात्रम् , ताद्ध यदाऽभीष्टसहकारिसंनिधौ कार्य
जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवेति वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोFor ऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्या
जननावस्थायां खभावः, स एव जननावस्थायामपि, इति कथं जनयेत् ? । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुरिन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति ।
अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे स्वभाव इत्यकामेनापि प्रतिपत्तव्यम् , तयोश्च भावा-ऽभावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । यद्यन्यत्वम्, तत् किं सर्वथा, उत कश्चित् । यदि सर्वथा, तर्हि द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न होकान्तभिन्नादभावाद् भावस्य निवृत्तियुज्यते, पटाभावादपि घटभावनिवृत्तिप्रसङ्गात । अथ कथञ्चित । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कथश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि
POS
२९३॥
१ घ. छ. 'थं नि'१२ घ.छ. 'रिकारण' ।
For Personal
Pre Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202