SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विशेषाः Picrooravaroo1656मारपरस समाजमनाममा ऽहि-विषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा ? इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अन॥२९३॥ र्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षः, तर्हि तस्य किमायातम् ? । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गातः तथाहि- सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा ? इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनन्तरभूत इति द्वितीयः पक्षः, स किं विद्यमानः, अविद्यमानो वा ?। यदि विद्यमानः, किमिति क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः । अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कथं करणोत्पत्तिः, करणे वा वस्तुनोनित्यत्वप्रसङ्गः, तदव्यतिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेष दोष इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात्ः इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात् , इति कथं प्रतिनियतसहकारिकल्पना । अथवभूत एवाऽस्य वस्तुनः स्वभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्यं जनयति । नन्वेतदपि मनोरथमात्रम् , ताद्ध यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवेति वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोFor ऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्या जननावस्थायां खभावः, स एव जननावस्थायामपि, इति कथं जनयेत् ? । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुरिन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति । अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे स्वभाव इत्यकामेनापि प्रतिपत्तव्यम् , तयोश्च भावा-ऽभावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । यद्यन्यत्वम्, तत् किं सर्वथा, उत कश्चित् । यदि सर्वथा, तर्हि द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न होकान्तभिन्नादभावाद् भावस्य निवृत्तियुज्यते, पटाभावादपि घटभावनिवृत्तिप्रसङ्गात । अथ कथञ्चित । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कथश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि POS २९३॥ १ घ. छ. 'थं नि'१२ घ.छ. 'रिकारण' । For Personal Pre Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy