________________
COM
बृहदात्तः।
विशेषा० ॥२९२॥
जमरा
तत तावत् श्रुतज्ञानं नियमाज्जीवो जीवस्वभावमेव भवति, नाजीवखभावम् । जीवः पुनस्तदेव केवलं न भवति । कुतः ?, इत्याह- यस्मादसौ तद्वा श्रुतज्ञानं स्यात् , तदज्ञानं वा श्रुताज्ञानं, केवलज्ञानं वा स भवेत् । वाशब्दाद् मतिज्ञानम् , अवधिज्ञानं, मन:पर्यायज्ञानं, मत्यज्ञानं, विभङ्गो वाऽसौ भवेज्जीव इति ॥ ५४२ ।।
'तं ता नियमा जीवो' इति यदुक्तं, तदुपजीव्य परः पाह
'तं जइ जीवो नासे तण्णासो होउ सव्वसो नत्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ॥५४३॥ ___ तच्छूतं यदि जीवो जीवस्वभावभूतं तत् , तदा जीवात् तदव्यतिरिक्तमिति सामार्थ्यादेव भवद्भिरभ्युपगतम् , युक्तं चैतत् , एवं हि सति युज्यते-जीवस्य तत्कृतवस्त्ववबोधो ज्ञानित्वं केवलं नाशे प्रतिपाते तस्य 'श्रुतस्य' इति प्रक्रमाल्लभ्यते, तस्य जीवस्य नाशस्तन्नाशो भवत्वस्तु । यतो हि यदव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्त्विति । अत्र मूरिरुत्तरमाह'भवतु' इतीहापि योज्यते, अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः, किन्तु सर्वशः सर्वात्मना पर्यायान्तरविशिष्टस्यापि तस्य नाशो नास्ति । यद् यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्मा, अनन्तपर्यायश्च वर्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति, तदैव श्रुताज्ञानामादिपर्यायेणोत्पद्यते । सचेतनत्वा-ऽमूर्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तैश्चानन्तैः पर्यायविशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे तस्य सर्वथा विनाशः स्यात् ।। यदि हि तस्याऽयमेवैका पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् । एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादिपर्यायेणोत्पादात् । यथोक्तैश्चानन्तपर्यायैर्विशिष्टस्य सर्वदैवाऽवस्थानादिति ।। ५५३ ॥
न चात्मैव केवल उत्पाद-व्यय-ध्रौव्यधर्मा, किन्तु सर्वमपि वस्त्वीदृशमेव, इति दर्शयति
सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥५४४॥
सर्वमेव हि स्तम्भ-कुम्भ-भवनादिवस्तु पतिसमयं पुराणादिपर्यायेणोत्पद्यते, नवादिपयोयेण तु विनश्यति, द्रव्यतया पुनर्नित्यं च ध्रुवं सर्वदैवाऽवतिष्ठते । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावो घटते, नान्यथा; सुखादिसद्भावो हि सक्-चन्दना-ऽङ्गना
, तद् यदि जीवो नाशे तन्नाशो भवतु सर्वशो नास्ति । यत् स उत्पाद-व्यय-ध्रौव्यधर्मा-ऽनन्तपर्यायः ॥ ५४३ ॥ २ सर्वमेव प्रतिसमयमुत्पद्यते गश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसजायः ॥ ५५५ ।।
B
॥२९२॥
for Personal and Private Use Only