________________
PATE
विशेषा०
290
बृहद्वृत्तिः ।
॥२९
॥
विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ ५३९ ॥
तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह
'मिच्छ-भवंतर-केवल-गेलन्न-पमायमाइणा नासो । आह किमत्थं नासह किं जीवाओ तयं भिण्णं ॥५४०॥
इहभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चोदसपुवी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम् , सामान्येन श्रुतगतिपातकारणभणनप्रक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, “ नहम्मि उ छाउमस्थिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परःपाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद् भिन्नं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भिन्नस्यैव नाशो युज्यते नाभिनस्यति भावः ॥ ५४०॥
भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह
जैइ भिन्नं तब्भावे वि तो तओ तस्सम्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व्व समं पईवेण ॥५४१॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति' ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः ?, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न पश्यदित्यर्थः। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्मकाश्यमर्थ न पश्यतीति ॥ ५४१ ॥
अत्र मूरिरुत्तरमाहतं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होज्जा ॥५४२॥
१ मिथ्या-भवान्तर-केवल-पलान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् ? ॥ ५४॥ २ गाथा ५३९। ३ नष्टे तु छानस्थिके ज्ञाने ।
यदि भित्रं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एवं नित्यमन्ध इव समं प्रदीपेन ॥ ५४१ ॥ ५ तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तदज्ञानं वा केवलज्ञानं वा स भवेत् ॥ ५४२ ॥
॥२९॥
Jan Education intem
For Personal and Private Use Only
www.jaineitrary.ary