________________
विशेषा०
॥२९४॥
Jain Educations Internatio
क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्याऽनन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम्, तर्हि तस्य परिकल्पितत्वादसच्चाद् द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येवः तर्हि प्रथपक्षणभाव एव द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीया दिक्षणाभावः; यद्येवम्, अत्र सुतरामन्याऽनन्यत्वकल्पना, तत्र चोक्तो दोषः । अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम्, तस्यैवाऽयोगात् ; तथाहि — क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अयोध्येत - द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याभावात् भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्याऽनन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम्, तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्यापि तद्धर्मत्वम्, अतस्तद्धर्मत्वे सर्वदैव भावापत्तेः ततश्च स्वहेतुभ्य एव तद्भावा-भावधर्मकं समुत्पयत इति प्रतिपत्तव्यम् । न चाऽक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात् इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-भावयोः सहावस्थानेऽविरोधात् सर्वदेव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम् इत्युच्यमानं विद्वज्जनमनांसि रञ्जयतिः एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियासंभवात् । तदयुक्तम्, क्षणिके एवार्थक्रियायोगात्, तथाहि क्षणिक पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्नः, निवर्तमानः, निवृत्तो वा १ इति विकल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात् अभ्युपगमे वा कोऽप्यंश उत्पन्नः कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात्, तथा चास्मत्पक्षसिद्धिः, द्रव्य-पर्यायोभयरूपवस्तु सिद्धेः । अंशाभ्युपगमे शवानवयवी सिद्ध्यति, स च द्रव्यम्, अंशाच पर्याया इति द्रव्य-पर्यायोभयरूपवस्तुसिद्धिः । नाऽप्युत्पन्नः, तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात्, अतिशयाधाने वा भिन्नकारणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत् । नन्वेतदध्यात्मचित्तसमाधानमात्रम्, यदि हि विशिष्टाऽर्थक्रियाकरणे सहकारिणां संयोगमात्रमेवायमपेक्षते, न त्वपरमतिशयम्; तर्ह्यसहकारित्वाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्रं विद्यते किमिति विवक्षित सहकारिसंयोगमपे
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ।। २९४ ।।
www.jainelibrary.org