________________
विशेषा. ॥२९५
क्षते । तस्मात् तेभ्यस्तस्यातिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशताप्रसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-ऽनित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि- मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यव्यावृत्तिः, यथाप्रतिभासं हि मृत्पिण्डसंवेदनं, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथाप्रतिभासभेदं तसंवेदनं विजातीयेष्बुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम् , देश-काल-नरावस्थान्तरेष्वित्थमेव प्रत्तेः । न चार्थप्रभवमविसंघादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु यथोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिबन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च
___ " भाषेप्येकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ १॥"
धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्तविनश्वरेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च
“एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥ १॥" न चाऽस्य संवेदनस्य बाधप्रत्ययो युज्यते, कदाचिदप्यनुपलब्धः । तस्मादन्वयाऽविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतवान्षय इति । उक्तं च
__ " नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयवृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ १॥" इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाश्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं बादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ ५४४ ॥
9.999.00
॥२९५॥
१५. छ. 'नप्रभवा' । ११. छ. 'स्तन' । ३ क.ग. रेषु भा'४. छ. 'का प्र'। ५५. छ. 'रेचा''। (घ. छ. 'प्र स्था'।
FANpurm.jaineltrary.org