________________
विशेषा०
॥२९६॥
इह श्रुतस्य साद्यादिप्ररूपणायां चतुर्भङ्गी संभवति, तद्यथा-सादि सपर्यवसितमित्येको भङ्गः, सादि अपर्यवसितमिति द्वितीयः, अनादि सपर्यवसितमिति तृतीयः, अनादि अपर्यवसितमिति चतुर्थः । तत्र द्रव्यत एकं पुरुषद्रव्यमङ्गीकृत्य निरूपितः प्रथमो भङ्गः। द्वितीयस्तु प्ररूपणामात्र, कचिदप्यसंभवात् । अतो भव्या-ऽभव्यौ समाश्रित्य तृतीय-चतुर्थभङ्गकावाह
अहवा सुत्तं निव्वाणभाविणोऽणाइयं सपज्जंतं । जीवत्तं पिव निययं सेसाणमणाइ-पज्जंतं ॥ ५४५ ॥ इह सम्यग्-मिथ्याभावेनाऽविशेषितं श्रुतसामान्यमानं गृह्यते । अथवाशब्दो भङ्गकान्तरसूचकः । निर्वाणे भविष्यतीति निर्वाणभावी भव्यस्तस्यैतच्छूतमात्रं भव्यत्ववदनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ पुनरवश्यं न भविष्यतीति सपर्यन्तम् । शेषाणामनिर्वाणभाविनामभव्यानां जीवत्ववदभव्यत्ववद् वा नियतं निश्चितमनादि-अपर्यन्तम् , अभव्यस्य संसारे कदाचिदपि श्रुतमात्राऽव्यवच्छेदादिति । इह द्रव्यत एकं जीवद्रव्यमाश्रित्य निरूपितः माक् सादिसपर्यवसितत्वलक्षणः श्रुतस्य प्रथमभङ्गः, नानाजीवद्रव्याणि त्वाश्रित्य तस्यैव चतुर्थभङ्गः पुरस्ताद् भणिष्यते ।। ५४५ ॥
अथ क्षेत्र-काल-भावैः प्रथमं भङ्गमेव तस्य दर्शयन्नाह
*खेत्ते भरहे-रवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवाणजे व आसज ॥ ५४६॥
प्राग् यदुक्तम्- ' देव्वाम्म एगपुरिसं पडुच्च साई सनिहणं च ' इति, तदिह प्रकृतं स्मर्यते। ततश्च क्षेत्रे चिन्त्यमाने भरत-रावतक्षेत्राण्याश्रित्य सम्यक्श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद् भवतीति सादित्वं, चरमतीर्थकृतीर्थान्ते त्ववश्य व्यवच्छिद्यत इति सपर्यवसितत्वमिति । काले त्वधिक्रियमाणे वे समे उत्सर्पिण्य-वसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतै-रावतेष्वेतत् सादि सपर्यवसितं भवति, योरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिण्यां तु पञ्चमस्यान्तेऽवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासायदं सादि सपर्यवसितं स्यादिति॥५४६॥
कथं पुनः प्रज्ञापकं, प्रज्ञापनीयांश्चार्थानाश्रित्येदं साद्यादिरूपम् ?, इत्याह
So616वहाराबहार
॥२९६॥
१ घ. छ. ' को भेदः सा'। २ अथवा सूत्र निर्वाणभाविनोऽनादिकं सपर्यन्तम् । जीवत्वामिव नियतं शेषाणामनादि-पर्यन्तम् ॥ ५४५ ॥ ३५. छ. 'थमभ' क्षेने भरत-रावते काके तु समे दे तनव । भावे पुनः प्रज्ञापकं प्रज्ञापनीयान् वाऽऽसाथ ॥ ५४६॥ ५ गाथा ५३८ ।
Educom
NO
For Personal
Private Use Only