SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२९॥ हालाहाबाद उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए गइ-ढाण-भेय-संघाय-वण्ण-सदाइभावेसु ॥ ५४७ ॥ उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्नः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके बृहद्वृत्तिः। गुरौ व्याख्यानादि कुर्वति सत्येते भावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-सपर्यवसिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरवादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गम्य-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राहाः, ग्राहकं च ग्राह्यनिवन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भावः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥५४७॥ अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्यभङ्गमुपदर्शयन्नाह देव्वे नाणापुरिसे खेचे विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए सययं॥५४८॥ द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यङ्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यकश्रुतं सततं वर्ततेअभूत् , भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् ॥ इति गाथाद्वादशकार्थः ॥ ५४८॥ ॥ तदेवं सपतिपक्षं सादि-सर्पयवसितं श्रुतं समाप्तम् ॥ १ उपयोग-स्वर-प्रयवाः स्थानविशेषान भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ ५० ॥ २ प. छ. 'मधुर-मन्दादिः पदव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं वर्तते सततम् ॥ ५४८ ॥ ॥२९७॥ R Jan Education Interna For Personal and Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy