________________
विशेषा०
॥२९८॥
Jain Education Internationa
अथ षष्ठं सप्रतिपक्षं गमिकश्रुतद्वारमाह
गणिया गमियं जं सरिसगमं च कारणवसेण । गाहाइ अगमियं खलु कालियसुयं दिट्ठिवाए वा ॥ ५४९ ॥ -गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं तच्चैवंविधं प्रायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संबध्यते । यत्र प्रायो गाथा-श्लोक-वेष्टकाद्यसदृशपाठात्मकं तदगमिकं तचैवंविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ ५४९ ॥
॥ इति सप्रतिपक्षं गमिकद्वारम् ॥
अथ सप्तमं सप्रतिपक्षमङ्गप्रविष्टद्वारमाह
हर-थेरक वा आएसा मुक्कवागरणओ वा । धुव चलविसेसओ वा अंगा- गंगेसु नाणतं ॥ ५५० ॥
अङ्गाऽनङ्गविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् १, इत्याह- गणधरा गौतमस्वाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गप्रविष्ठमुच्यते । स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतं श्रुतमावश्यकनिर्युक्त्यादिकमनङ्गमविष्टमङ्गबाह्यमुच्यते । अथवा, वारत्रयं गणधरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय- धीव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पन्नं तदङ्गमविष्टं द्वादशाङ्गमेव, मुत्कं मुत्कलममनपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्माद् निष्पन्नमङ्गवाद्यमभिधीयते तच्चावश्यकादिकम् । वाशब्दो ऽङ्गानङ्गविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीयं भेदकारणमाह- 'धुव-चलविसेसओ व त्ति' धुवं सर्वतीर्थकर तीर्थेषु नियतं निश्चयभावि श्रुतमङ्गप्रविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमनियतमनिश्चयभावि तत् तन्दुलवैकालिकप्रकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोऽत्रापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति - गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं, ध्रुवं च यच्छ्रतं तदङ्गमविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधानं, चलं च तदावश्यकप्रकीर्णादि श्रुतमङ्गाह्यमिति ॥ ५५० ।।
आह- ननु 'पूर्व पूर्वाण्येवोपनिषनाति गणधरः' इत्यागमे श्रूयते, पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च
१ भङ्ग -गणितादि गमिकं यत्सदृशगमं च कारणवशेन । गाथाथमिकं खलु कालिकतं दृष्टिवादे वा ॥ ५४९ ॥
२ गणधर स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । भुव-चलविशेषतो वाऽङ्गाऽनङ्गयोर्नानात्वम् ॥ ५५० ॥ ३ घ. छ. 'द् यद् नि' । ४ घ.छ. 'नं तदङ्ग' ५ क. ख. ग. 'प्रथमं पू' |
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२९८॥
www.jainelibrary.org