________________
विशेषा.
बृहद्वृत्तिः ।
॥२८७॥
कसम्यक्त्वे शुद्धपुञ्जपुद्गलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेद्यते । इत्यलं प्रसङ्गेनेति ॥ ५३२ ॥
अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया पाह
'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थं । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३ ॥
वेदयत्यनुभवति सम्यक्त्वपुद्गलानिति वेदकोऽनुभविता, तदनान्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेद्यत इति वेदकम् , जीवादिवस्तुबोधं प्रति समिति सम्यग् अवैपरीत्येन, अञ्चति प्रवर्तत इति सम्यक् , तस्य भावः सम्यक्त्वं, वेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपकाणं प्रतिपन्नस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुञ्जेषु क्षपितेषु, सम्यक्त्वपुञ्जमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुद्गलावस्थं भवति । सर्वे च ते उदिताश्च ते च ते चरमपुद्गलाश्च सर्वोदितचरमपुद्गलास्तेऽवस्था स्वरूपं यस्य तत् तथा । इदमुक्तं भवति-क्षपितप्रायदर्शनसप्तकस्य सम्यत्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति ।
__अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् । सत्यम् , किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-ऽनुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । चरमग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्यं चेदमङ्गीकर्तव्यम् , स्थानान्तरेषु बहुशः क्षायिको-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात् । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्गः स्यादिति । अनन्तानुबधिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपश्चकपरिग्रहात् सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥ ५३३ ॥
अत्राह-ननु कियत् सम्यक्श्रुतमेव भवति?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति?, कस्य च न ?, इत्याशङ्कयाह
१ वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥ ५३३ ॥ २ घ.छ. 'मव' ।
॥२८७॥
and
interna
For Personal
Pre Use Only
www.jainelbrary.org