SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥२८८॥ मराकाजल e rson चोदस दस य अभिन्ने नियमा सम्मत्तं सेसए भयणा । मइ-ओहिविवज्जासे विहोइ मिच्छं न उण सेसे ॥५३४॥ चतुर्दशपूर्वेभ्यः समारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्- एतावच्छूतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः । 'सेसए भयण त्ति' शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना विकल्पनाएतच्छुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतं, मिथ्यात्योदयात् मिथ्याश्रुतमपि स्यादिति भावः। मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषेमनःपर्याय-केवलज्ञानद्वये । इदमुक्तं भवति- मिथ्यात्वोदयाद् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तदुदयाद् विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-केवलज्ञाने तु कदापि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तत्सनावे तदुदयस्पैवाऽसंभवात् । मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः । इति । एतच्चेह मिथ्यात्वोदयसंभवा-ऽसंभवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग-मिथ्याथुतमेवेति ।। ५३४ ।। अत्र किल परः किंचित् प्रेरयति तेत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? । जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥५३५॥ नाणमवाय-धिईओ दसणमिटुं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ ५३६ ॥ उभयत्रापि तत्त्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् । इति ? । इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम् , जीवोऽपि नित्याऽनित्यायनेकखभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपः-संयमादिभिस्तु ततो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमुच्यते, श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः, येनोच्यते- 'सम्यक्त्वपरिगृहीतं सम्यक्श्रुतम्' इति । अत्रोतरमाह- 'जहेत्यादि' यथा वस्त्ववबोधरूपले तुल्येऽपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्रु , चतुर्दश दश चाभिन्नानि (पूर्वाणि) नियमात् सम्यक्त्वं, शेषके भजना । मत्व-वधिविपर्यासेऽपि भवति मिथ्यात्वं न पुनः शेपे ॥५३॥ २ क.ग 'यवि' । ३ तत्त्वावगमस्वभावे सति सम्यक्त्व-श्रुतवोः कः प्रतिविशेषः । वथा ज्ञान-दर्शनयोर्भवस्तुल्येऽवयोधे ॥ ५३५ ॥ जालमपाय-एती दर्शनमिष्टं यथावप्नहे-हे । तथा तत्त्वचिः सम्यक्त्वं रोच्यते येन तज्ज्ञानम् ॥ ५३६ ॥ ॥२८८॥ TRIPPIRRIP For Personal Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy