________________
बृहद्वत्तिः ।
विशेषा० ॥२८९॥
KICHOCOCONIONARY
तयोरिहाऽपि कश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः, इति चेत् । इत्याह- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ञानमिष्ट; अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तज्जीवादितस्त्वं रोच्यते श्रद्धीयते तज्ज्ञानम् । अयमत्राभिप्रायःदर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते- विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं, न पुनस्ततोऽतिरिक्तं किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? । सिद्धान्तवादी तु मन्यतेयथा ज्ञानदर्शनयोर्वस्त्ववबोधरूपतयैकत्वेऽपि विशेष-सामान्यवस्तुग्राहकत्वेन भेदः, तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तत्त्वरांचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोयुगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च
"कारण-कज्जबिभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ १ ॥
जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाइजलवुट्टीओ विसोहिति ॥ २॥" अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ ५३५ ॥ ५३६ ॥
॥ सप्रतिपक्षं सम्यकश्रुतं समाप्तमिति ॥ इदानी सादि सपर्यवसितं च श्रुतं सप्रतिपक्षमुच्यते
अत्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गइपज्जाएहिं जीवो व्व ॥ ५३७ ॥
अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिप्रायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पञ्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं, यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावद् न कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता,
१५. छ. 'नर्जी' । २ घ. छ, 'तत्र रु। ३ क. ग. 'कं वि'। ४ घ. छ. 'न्यमा' । ५ कारण-कार्यविभागो दीप-प्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुनिस्य सम्यक्त्वम् ॥1॥
युगपदपि समुत्पन्न सम्यक्त्वमधिगम विशोधयति । यथा कनकम अनादिजलवृष्टयो विशोधयन्ति ॥ २॥ ६ अस्तीतिनयस्येदमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि सान्तं गतिपर्यायजीव इव ।। ५३७ ॥
||२८९॥
For Personal d
e
ser