SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वृत्तिः। सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थ भवतीति ॥ ५३१ ॥ विशेषा० अथ क्षायोपशमिकमाह॥२८॥ 'मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ ५३२ ॥ यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्ण, यच्च शेष सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भितोदयमुपनीतमिथ्यास्वभावं च शेषमिथ्यात्वं, मिथ्यात्व-मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जामाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः । आह-यद्येवम् , अशुद्ध-मिश्रपुञ्जद्वयरूपस्य विष्कम्भितोदयस्यैवोपशान्तस्याऽनुदीणता युज्यते, न तु शुद्धपुञ्जलक्षणस्यापनीतमिथ्यात्वस्वभावस्य, तस्य विपाकेन साक्षादनुभूयमानत्वादितिः भवद्भिस्तु 'अणुइयं च उवसंत' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम् , तदेतत् कथम् । इति । अत्रोच्यते- सत्यमेतत् , किन्त्वपनीतमिथ्यात्वस्वभावत्वात् स्वरूपेणाऽनुदROH यात् तस्याऽप्यनुदीर्णतोपचारः क्रियते । अथवा, अनुदीर्णत्वमविशुद्धमिश्रपुञ्जद्वयरूपस्य मिथ्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीतमिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्यर्थः। कथम् ?, इति चेत् । उच्यते-मिथ्यात्वं यदुदीर्णमुदयमागतं तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्ण 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं तदुपRo शान्तं चेति- अपनीतमिथ्यात्वखभावमित्यर्थः, इत्येवं सर्वं सुस्थं भवति । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्वमिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं मिश्रीभावपरिणतं वेद्यमानमनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां नित्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टयथावस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्याऽऽवारका न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति । ___ अत्राह- ननूर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम् , प्रागुक्तमौपशमिकमपि तदेवंविधमेव, तत् कोऽनयोर्विशेषः । तदेतदसमीक्षिताभिधानम् , यतो 'मीसीभावपरिणयं वेइज्जतं खओवसमं' इति वचनादत्र क्षायोपशमि ॥२८६॥ . मिथ्यात्वं यदुदीर्ण तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशामिकम् ॥ ५३२ ।। १ क. ग, शान्तं ना'। प. छ. 'स्य विष्कम्भितोदयं पु। ४ क. ग, 'मधु' । ५ क.ग. 'लव' । JanEducationainamaAHU For besond ere Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy