SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदात्तः। ॥२८५॥ "जो गंठी तो पढम गठिं समइच्छओ हवइ बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥" इति । ततस्तत्राऽनिवृत्तिकरणे यदुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीणे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीय- माने परिणामविशुद्धिविशेषादुपशान्ते विष्कम्भितोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् ?, इत्याह- अन्तर्मुहूर्तमात्रं कालमौपशमिकसम्यक्त्वं लभते जीवः । अस्माचौपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याऽकृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम्- सैद्धान्तिकानां तावदेतद् मतं यदुत- अनादिमिध्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुञ्जपुद्गलान् वेदयन्नौपशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अन्यस्तु यथाप्रवृत्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्वाच्च्युतोऽवश्यं मिथ्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये " आलंबणमलहंती जह सट्ठाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छं चिय उवसमी एइ ॥ १॥" यथा गात्रे समुत्क्षिसे सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना प्राक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति-पुनरपि संकुच्य प्राक्तनस्थान एव तिष्ठतीत्यर्थः, एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृतत्रिपुञ्जत्वाद् मिश्र-शुद्धपुञ्जलक्षणं स्थाना|न्तरमलभमानः पुनस्तदेव मिथ्यात्वमागच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत- सर्वोऽपि मिथ्यादृष्टिः प्रथमसम्यक्त्वलाभकाले यथाप्रवृत्यादिकरणत्रयपूर्वकमन्तरकरणं करोति, तत्र चौपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवौपशामिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिथ्यादृष्टियं भवति । इत्यलं प्रपश्चेनेति ॥ ५३० ॥ अथ सास्वादनसम्यक्त्वमाह उँवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ ५३१ ॥ इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनन्तानुवन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं, उत्कृष्टतस्तु पडावलिका १ यो ग्रन्थिः स प्रथम (यथाप्रवृत्तकरणं) प्रन्धि समतिगच्छतो भवति द्वितीयम् (अपूर्वकरणं)। अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१॥ २५. छ. 'तैमाग'। । आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतमिपुजी मिध्यात्वमेवोपशम्येति ॥१॥ ४ उपशमसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले पदावलिकम् ॥ ५३॥ स २८५॥ Jan Education Internatio For Personal and Private Use Only USTww.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy