________________
विशेषा.
॥२८४॥
उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिकं सम्यक्त्वं भवति । किमुपशमणिगतस्यैवैतद् भवति !, न, इत्याह'जो वेत्यादि' यो वा जन्तुरनादिमिथ्यादृष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमि-बृत्तिः । ध्यात्वो लभते सम्यक्त्वं, तस्याऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुखोऽप्यविद्यमानत्रिपुजो भवति, अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुजः सम्यक्त्वं लभते, तस्यैवीपशामिक - सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्यादृष्टिस्तथा-1 विधगुर्वादिसामग्रीसद्भावेऽपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अधेविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्गललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुजत्रयं कृत्वा सम्यक्त्वपुजपुद्गलान् विपाकतो बेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः
" तद्यथेह प्रदीपस्य स्वच्छाश्रपटलैहम् । न करोत्यावृति काञ्चिदेवमेतद् रवेरपि ॥१॥" एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः ।।
"एकपुजी द्विपुजीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्व कीर्तितः ॥१॥" अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुश्री सन्नुभयवान् सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युद्वलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह
“यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुञ्ज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ १॥" इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन ॥ ५२९॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तहि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह
खीणम्मि उइण्णम्मि य अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तम उवसमसम्म लहइ जीवो ॥५३०॥
इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिप्रमाणतां नीतास्त्रपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये
॥२८॥ 1 क्षीण उदीणे चानुदीयमाने च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ ५३॥
For Personal and Prevate Une Grey